________________
तत्त्वन्यायविभाकरे
[भेदग्राही व्यवहतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोः सीम्ति शुद्धर्जु सूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलुविषमाः सूरिपक्षास्त्रयोऽपि ॥] -शानहु (प्रान्त (HI) एवमिन्द्रियस्वरूपमुपदर्य सम्प्रति तत्संख्यामाहतत्रेन्द्रियाणि चक्षुरसनघ्राणत्वक्श्रोत्ररूपाणि पञ्च ॥ १२ ॥
तत्रेति । अत्र रूपरसगन्धस्पर्शशब्देतिलौकिकव्यवहारप्रसिद्धक्रमापेक्षया रूपिणः पुद्गला इति सूत्रमनुसृत्य च चक्षुरादिक्रमोऽवलम्बितोऽनानुपूर्वीक्रमस्यापि शास्त्रे प्रसिद्धत्वात् ॥
न्द्रियः१३५नी संध्यान । छ. भावार्थ - "त्यांन्द्रियो यक्षु-२सन-प्रा५-१३ (स्पर्शन) भने श्रोत्र३५ पाय छे."
વિવેચન-અહીં રૂપ-રસ-ગંધ-સ્પર્શ અને શબ્દ પ્રમાણેના લૌકિકવ્યવહાર પ્રસિદ્ધક્રમની અપેક્ષાએ અને 'रूपिणः पुद्गला'-मापा सूत्रने अनुसरी, यक्षु मा म मलित ४३९ छ. मनानुपूर्वाधमनी ५५॥ શાસ્ત્રમાં પ્રસિદ્ધિ છે.
सम्प्रति चक्षुषो लक्षणमाचष्टे
रूपग्राहकमिन्द्रियं चक्षुरप्राप्यप्रकाशकारि । रूपं श्वेतरक्तपीतनीलकृष्णरूपेण पञ्चविधम् ॥१३॥
रूपग्राहकमिति । अत्र लक्ष्यमिन्द्रियव्यपदेशभाक् निर्वृत्त्युपकरणलब्ध्युपयोगरूपमिन्द्रियम्, अन्यतमापायेऽपि रूपग्रहणासम्भवात् । रूपविषयकज्ञानसाधनत्वे सतीन्द्रियत्वं चक्षुषो लक्षणम् । आत्मादिवारणायेन्द्रियत्वोपादानम् । रसनादावतिव्याप्तिनिवृत्तये सत्यन्तम् । अत्रेदम्बोध्यम् एकस्यैव वस्तुनोऽवस्थाभेदेन रूपादिस्वरूपत्वं भवति, तथाहि चक्षुषा यदेव विलोकितं तदेव रसनया रस्यते, घ्राणेन घ्रायते स्पर्शनेन स्पृश्यते तदेव चातिकठिनीभूतमभ्यवहियमाणं ध्वनिमातनोति न तु क्वचिद्देशे रूपं क्वचिद्देशे रसः क्वचिद्देशे गन्धादयः । तस्मात्तदेव पुद्गलद्रव्यं चक्षुर्विषयतामापन्नं श्वेताद्याकारेण विषयतया परिणतिमुपागच्छद्रूपमिति व्यपदिश्यते, रसनग्रहणविषयतामितं तिक्तादिपरिणामभाग् रस इति व्यपदेशमश्नुते, एवमितरेन्द्रियप्राप्तानामपि भाव्यम्, दृश्यते ह्येक एव पुरुषः पितृस्वसृभ्रात्राद्यनेकपुरुषापेक्षया तथातथा व्यपदेश्यतया । तदेवं द्रव्यमिन्द्रियनानात्वान्नानाऽऽकाररूपादिभेदमापद्यते, स्वनिमित्ततस्त्वेकाकारं, द्रव्यस्वलक्षणविशिष्टत्वात् । तदिदञ्चक्षुः प्रकर्षणात्माङ्गुलप्रमित