________________
सूत्र - १४, प्रथम किरणे
ત્યાં જ્ઞાનાવરણીયપંચક જ્ઞાનાવરણીયકર્મની પ્રકૃતિ છે, અંતરાયપંચક અંતરાયકર્મની પ્રકૃતિ છે, દર્શનાવરણીયનવક દર્શનાવરણીયકર્મની પ્રકૃતિ છે, મિથ્યાત્વ-કષાય પંચવંશતિ રૂપ છવ્વીશ પ્રકારના કર્મો મોહનીયકર્મની પ્રકૃતિ છે, નરકાયુ આયુષ્યકર્મની પ્રકૃતિ છે, નીચ ગોત્ર ગોત્રકર્મની પ્રકૃતિ છે અને અશાતા વેદનીયકર્મની પ્રકૃતિ છે.
450 , i 3-न२ति, न२/नुपूला, तिर्थयाति, तियानुपूव्वा, भेड-द्वि-त्रिચતુરિન્દ્રિય જાતિ, અપ્રથમ સંહનાનપંચક, અપ્રથમ સંસ્થાનપંચક, અપ્રશસ્તવર્ણચતુષ્ક, ઉપઘાત, કુખગતિ અને સ્થાવરદશક- એમ ચોત્રીસ કર્મો નામપ્રકૃતિ રૂપ જાણવાં.
साम्प्रतमाश्रवं विभजते
आश्रवस्तु इन्द्रियपञ्चककषायचतुष्काव्रतपञ्चकयोगत्रिक-क्रियापञ्चविंशतिभेदात् द्वाचत्वारिंशद्विधः । १४ ।
आश्रवस्त्विति । कायवाड्मनसां क्रियाविशेषो योगापरपर्याय आत्मकायाद्याश्रय आश्रव उच्यते, स च यद्यपि सकषायस्याकषायस्य च भवति तथाप्यत्र सकषायस्यैवाश्रवं विभजते, स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपमिन्द्रियपञ्चकं, क्रोधमानमायालोभरूपं कषायचतुष्कं, हिंसाऽसत्यस्तेयाब्रह्मपरिग्रहरूपमव्रतपञ्चकं, कायवाड्मनोरूपं योगत्रिकं, कायिक्यधिकरणिकी प्रादोषिकीपारितापनिकीप्राणातिपातिक्यारंभिकीपारिग्रहिकीमायाप्रत्ययिकीमिथ्यादर्शनप्रत्ययिक्यप्रत्याख्यानिकीदृष्टिकीस्पृष्टिकीप्रातीत्यकीसामन्तोपनिपातिकीनैः-शस्त्रिकीस्वाहस्तिक्याज्ञापनिकीविदारणिक्यनाभोगप्रत्ययिक्यनवकांक्षप्रत्ययिकीप्रायोगिकीसामुदायिकीप्रेमप्रत्ययिकीद्वेषप्रत्ययिकीर्यापथिकीरूपाः क्रियापञ्चविंशतिः, एषां द्वन्द्व एता एव भेदो विशेषस्तस्मादित्यर्थः । यद्यपि योगेन्द्रियकषायाव्रतानां सकषायसम्बन्धिनां क्रियास्वभावानतिवृत्तेः क्रियामात्रमेवास्रवः प्रसक्त स्तथापि तेषां द्रव्यास्रवत्वं शुभाशुभास्रवपरिणामाभिमुखत्वात्, भावास्रवस्तु कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरिति तेषां पृथग्ग्रहणं, तत्राव्रतपञ्चकं सकलास्रवजालमूलं, तत्प्रवृत्तावेवास्रवेषु प्रवृत्तिस्तन्निवृत्तौ च सर्वास्रवेभ्यो निवृत्तिः अत्र कषायचतुष्कं सहकारि, उभयोरनयोः सत्त्वे इन्द्रियपञ्चकमास्रवेषु प्रवर्तेते तदनन्तरञ्च पञ्चविंशतिक्रिया आस्रवकारणिकाः प्रवर्त्तन्ते, सर्वत्र च कायावङ्मनोयोगस्सहकारी भवति । तथा च क्रियापञ्चविंशतिः नैमित्तिकी, इतराणि तु निमित्तानि यथा स्पर्शनेन्द्रियं कारणं स्पर्शनक्रिया कार्य तस्मिन् सति स्पृष्टिकी क्रिया, मूर्छा कारणं परिग्रहः कार्यं तस्मिन् सति पारिग्रहिकी क्रिया, क्रोधः कारणं प्रदोषः कार्य तस्मिन् सति प्रादोषिकी क्रिया, मानः कारणमप्रणतिः कार्य तस्मिन् सति प्रातीत्यकी क्रिया, कारणं माया कार्य कौटिल्यं तस्मिन् सति मायाप्रत्ययिकी