SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ सूत्र - ३६-३७, दशमः किरणः ७६३ तीर्थातीर्थसिद्धानाह - प्रवर्तिते तीर्थे मुक्तास्तीर्थसिद्धाः । यथा गणधारिणः । अर्वाक् तीर्थस्थापनाया एव मुक्ता अतीर्थसिद्धाः । यथा मरुदेवा ।३७॥ प्रवर्तित इति । संसारापारवारांनिधिस्तीर्यतेऽनेनेति तीर्थं प्रवचनं परमगुरुप्रणीतं यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकम्, तच्च न निराधारं भवितुमर्हतीति कृत्वा संघः प्रथमगणधरो वा तदिति वेदितव्यं, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धा इत्यर्थः । निदर्शनमाह यथेति । अतीर्थसिद्धानाहार्वागिति । तीर्थस्याभावोऽतीर्थं, अभावश्चात्रानुत्पादो व्यवच्छेदो वा विवक्षितः । तस्मिन् सति ये सिद्धास्तेऽतीर्थसिद्धाः । तत्र तीर्थस्यानुत्पादे सिद्धानां निदर्शनमाह-यथेति । नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् किन्तु केवलज्ञानावाति प्रभोनिशम्य पुत्रवियोगेन रुदतीं पटलावृतनेत्रां तां वारणस्कन्ध आरोप्य वन्दनार्थं प्रचलिते भरते दूरादेव दिव्यनिध्वानं निशम्य प्रहृष्टान्तरङ्गा हर्षाश्रुणा दूरीकृतचक्षुरावरणा विभुवैभवं दृष्ट्वाऽचिन्तयत् पुत्रस्नेहन मया नेत्रे गततेजस्के कृते, नानेन कमपि संदिष्टमिति, पुत्रस्नेहं विधूय विरक्ता घातिकर्मक्षयोदितकेवलज्ञाना वारणस्कन्ध एव सा सिद्धिमुपयाताऽतस्तीर्थसंस्थापनपूर्वं मुक्तिगमनादतीर्थसिद्धेति भावः । अर्थतेषां सत्पदप्ररूपणा द्रव्यकालान्तराण्याश्रित्य परम्परयाल्पबहुत्वस्य विचारे क्रियमाणे तीर्थकरतीर्थे तीर्थकरीतीर्थेऽतीर्थे च सिद्ध्यन्त्येते, युगपदेकसमयेनोत्कर्षतस्तीर्थकृतश्चत्वारस्सिद्ध्यन्त, अष्टशतमतीर्थकृतां विंशतिस्स्त्रीणां द्वे तीर्थकयौँ । तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कृष्टतोऽष्टौ समयान् तीर्थकरास्तीर्थकर्यश्च द्वौ द्वौ समयौ निरन्तरं सिद्ध्यन्ति । तीर्थकृतः पूर्वसहस्रपृथक्त्वमुत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणां साधिकं वर्षं नोतीर्थसिद्धानां संख्येयानि वर्षसहस्राणि नोतीर्थसिद्धाः प्रत्येकबुद्धाः । जघन्यतस्सर्वत्रापि समयः । सर्वस्तोकाः तीर्थकरीसिद्धाः, ततस्तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धास्संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धा संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरसिद्धास्संख्येयगुणाः, तेभ्यस्तीर्थकरसिद्धा अनन्तगुणाः तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थे साध्वीसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थेऽतीर्थकरसिद्धाः संख्येयगुणा इति ॥ १. तीर्थस्य व्यवच्छेदश्च चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले, तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धा इत्यपि बोध्यम् ।
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy