________________
सूत्र - १३-१४, दशमः किरणः
सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथंचिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । 'निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते' इत्यभिधानात् । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, अचक्षुर्दर्शनमिन्द्रियावरणक्षयोपशमाद्द्रव्येन्द्रियानुपघाताच्चाचक्षुर्दर्शनलब्धिमतो जीवस्य विषय संश्लिष्टतासम्बन्धेन भवति । एतादृशसम्बन्धाभावादेव जायमानत्वाच्चक्षुर्दर्शनस्य पृथगुक्तिः, इतरेन्द्रियाणां प्राप्यकारित्वात् । मनसस्त्वप्राप्यकारित्वेऽपि प्राप्यकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वादचक्षुर्दर्शनान्तर्गतं तद्बोद्धव्यम् । अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्यावधिदर्शनं सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु शास्त्रेऽवधेरुत्कृष्टतोऽप्येकवस्तुगतसंख्येयासंख्येयान्यतरपर्यायविषयत्वस्यैवोक्तत्वात् । जघन्यतस्तु रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्यायास्तस्य विषयाः । ननु पर्याया विशेषा उच्यन्ते न च दर्शनं विशेषविषयं भवितुमर्हति ज्ञानस्यैव तद्विषयत्वात्, तत्कथमवधिदर्शनविषयाः पर्याया भवितुमर्हन्तीति चेत्सत्यं, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मृदादिसमान्यमेव तथाविशिष्यते पुनस्ते नैकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतस्सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति । केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्त्तामूर्त्तेषु सर्वपर्यायेषु च सकलदृश्यविषयत्वेन परिपूर्णात्मकं केवलदर्शनं भवति । मनः पर्यवज्ञानन्तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तम् ॥
દર્શનમાર્ગણા ભેદનું વર્ણન
भावार्थ - यक्षु, जयक्षु, अवधि जने देवलना भेध्थी यार (४) दर्शनमार्गशाओ छे.
વિવેચન हेवाय छे.
-
७३१.
દર્શન આવરણના ક્ષયોપશમ આદિથી જન્ય સામાન્ય માત્રનું ગ્રહણ, એ ‘દર્શન’
(૧) ચક્ષુદર્શન-ઇન્દ્રિય આવરણના ક્ષયોપશમથી અને દ્રવ્યેન્દ્રિયના ઉપઘાતના અભાવથી ચક્ષુદર્શનલબ્ધિવાળા જીવનું ઘટ આદિ પદાર્થોમાં ચક્ષુ દ્વારા દેખવું, તે ‘ચક્ષુદર્શન' કહેવાય છે. વળી આ ચક્ષુદર્શન સામાન્ય વિષયવાળું હોવા છતાં ઘટ આદિ વિશેષનું કથન, તે સામાન્ય અને વિશેષનો કથંચિત્ અભેદ હોવાથી એકાન્તથી વિશેષોથી ભિન્ન સામાન્યના અગ્રહણના જણાવવા માટે છે, કેમ કે-શાસ્ત્રનું વચન छे }-‘निर्विशेष सामान्य रीते (द्रव्य३ये) विशेषोनुं-पहार्थोनुं ग्रहण दर्शन हेवाय छे.
(૨) અચક્ષુદર્શન-ચક્ષુ સિવાયની બાકીની ચાર ઇન્દ્રિયો અને મન, એ ‘અચક્ષુ' તરીકે કહેવાય છે. ઇન્દ્રિય આવરણના ક્ષયોપશમથી, દ્રવ્યેન્દ્રિયના ઉપઘાતના અભાવથી અચક્ષુદર્શન લબ્ધિવાળા જીવનું વિષયના સંશ્લેષરૂપ સંબંધથી અચક્ષુ દ્વારા દર્શન, એ ‘અચક્ષુદર્શન’ કહેવાય છે.