________________
सूत्र - ११, प्रथम किरणे
कालस्त्वेकसमयात्मकत्वेनैकोऽतो न तस्य कायरूपत्वमिति भावः । पञ्चेति, जीवधर्माधर्माकाशपुद्गला इत्यर्थः । अस्तिकाया इति, सकलजीवादिद्रव्यध्रौव्यप्रतिपादकोऽव्ययोऽस्तिशब्दः । आपत्तिवाचकः कायशब्दः, आपत्तिर्नामाविर्भावतिरोभावौ, उत्पादविनाशाविति यावत् । एवञ्चोत्पादव्ययध्रौव्यात्मका इत्यर्थः । ननु पुद्गलानामुत्पादव्ययवत्त्वसंभवेऽपि जीवादीनां कथं तदिति चेन्न जीवस्योत्पादविनाशिशरीरसम्बन्धादुत्पादविनाशवत्त्वात् अनित्यज्ञानादिमत्त्वाद्वा, धर्मादीनामपि तत्तद्गत्याधुपग्रहव्यापाराणां जिगमिषुचैत्रादिनिमित्तत आविर्भूतानां समुपरतगत्यादिव्यापारे च चैत्रादिके तिरोहितानाञ्च सम्बन्धेनोत्पादविनाशवत्त्वात्। न च मनुष्यलोकान्तर्वर्तिनः कालस्यैकसमयात्मकत्वात्परमसूक्ष्मत्वानिर्विभागत्वाच्च न कायता, अत एव नोत्पादविनाशित्वं, उत्पादविनाशाविनाभूतञ्च ध्रौव्यं तदभावात् ध्रौव्यमपि न भवेदेवेति समयात्मकः कालो वन्ध्यापुत्रवदसन्नेव स्यादिति वाच्यम्, यत्कायशब्देनोच्यते तदेवोत्पादविनाशवदिति नियमाभावात् । किन्तु स्वरससिद्धयोरेवोत्पादविनाशयोः कायशब्देन प्रकाशनात् । नहि शब्दसामर्थ्यादभूतयोरपि तयोः कल्पना समुचिता, तथा च कायशब्दप्रयोगाभावेऽपि स्वारसिकोत्पादविनाशौ तत्सहचरितं ध्रौव्यञ्च कालेऽप्यस्त्येवेति न दोषः । न चैवमपि कुतो न काले कायशब्दः प्रयुज्यत इति वाच्यम् । प्रदेशानामवयवानां वा बहुत्वाभावात् । अभ्यन्तरीकृतेवार्थो हि कायशब्दः, काया इव काया इति यथौदारिकादिशरीरनामकर्मोदयवशात्पुद्गलैश्चीयन्ते इति कायाः तथा धर्मादीनामनादिपारिणामिकप्रदेशचयनात् कायत्वम् । तथा च प्रचीयमानाकारत्वं कायशब्दार्थः, स च समुदायरूपः, सोऽपि विभागे सति भवति, विभक्ताश्च धर्मादिद्रव्यप्रदेशाः, एकस्मिन्धर्मादिप्रदेशेऽपरस्य धर्मादिप्रदेशस्याप्रतिष्ठितत्वात् । तथा प्रविभक्तप्रदेशानां परस्पराविच्छेदरूपत्वात्समुदायरूपत्वमेतादृशञ्च प्रचीयमानाकारत्वं काले नास्तीति दिक् । एवञ्च कालातिरिक्तानां प्रदेशावयवबहुत्वं साधर्म्य फलितं, न चैकस्मिन् परमाणौ अवयवबहुत्वमव्याप्तमिति वाच्यम् प्रदेशावयवबहुत्वसमानाधिकरणद्रव्यत्वव्याप्यधर्मवत्त्वस्य तदर्थत्वात्, तादृशो धर्मः पुद्गलत्वं परमाणावपीति नाव्याप्तिः, कालेऽतिव्याप्तिवारणाय बहुत्वान्तम् । पर्यायाथिकनयप्राधान्येनायमर्थ आहतः, वस्तुतस्तु तस्य द्रव्यावयवैर्निरवयवत्वेऽपि ‘एकरसगन्धवर्णो द्विस्पर्शश्चाणुर्भवतीति स्वशास्त्रप्रसिद्ध्या भावावयवैस्सावयवत्वमक्षतमेव । एवं जीवादीनां पञ्चानां अरूपित्वममूर्त्तत्वं, धर्मादिचतुर्णामेकद्रव्यत्वं निष्क्रियत्वं जीवादीनां त्रयाणां लोकाकाशस्य चासंख्येय प्रदेशत्वं, संख्येयासंख्येयानन्तान्यतमप्रदेशत्वं पुद्गलानां, जीवपुद्गलानान्त्वनेकद्रव्यत्वं क्रियावत्त्वं च साधर्म्य विज्ञेयमिति दिक् ॥