________________
तत्त्वन्यायविभाकरे
आत्मकृतशुभाशुभकर्मणा चक्षुरादीनां सर्जनात् । इन्द्रियद्वारेणास्य विज्ञानोत्पादात्, विषयग्रहणायात्मना विषयेभ्य: समर्पणाच्च । अत्र यज्जीवलिङ्गं तत्सर्वमिन्द्रियमिति न नियमः परन्तु यदिन्द्रियं तत्तथाविधमिति, यथा ये वृक्षास्त आम्रा इति न नियमः किन्तु य आम्रास्ते वृक्षा इति । इन्द्रियविशेषचर्चा अग्रे करिष्यते । कायेति, चीयते उपचयं नीयते यथायोगमौदारिकादिवर्गणागणैर्यस्स कायः, योगेति, युज्यते इति योगो मन आदिर्धावनवल्गनादिक्रियासु वीर्यान्तरायक्षयोपशमजन्यपर्यायेण व्यापार्यमाणत्वात् तत्तत्क्रियास्वलम्बनरूपत्वाद्वीर्यशक्तिस्थामादिपदवाच्यस्सामर्थ्यविशेषो योगः । वेदेति, अङ्गोपाङ्गनिर्माणादिनामकर्मोदयजन्यशरीरवृत्त्याकारविशेषो वेद: । कषायेति कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्तीति कषाया औणादिक आयप्रत्ययो निपातनाच्च ऋकरास्याकारः । कलुषयन्ति शुद्धस्वभावं सन्तं जीवं कर्ममलिनं कुर्वन्तीति कषाया निपातनात्कलुषशब्दस्य कषायादेशः । कष्यन्ते बाध्यन्ते जीवा अनेनेति कषं कर्म भवो वा तस्यऽऽयो लाभ एषां यतस्ते कषायाः मोहनीयकर्मपुद्गलोदयसम्पाद्यजीवपरिणामविशेषाः क्रोधादयः । ज्ञानेति ज्ञातिर्ज्ञानं ज्ञायते वस्तु परिच्छिद्यतेऽनेनेति ज्ञानं, यथास्थितार्थपरिच्छेदनं, यद्वा ज्ञातिर्ज्ञानमावरणक्षयाद्याविर्भूत आत्मपर्यायविशेषः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः, ज्ञायतेऽनेनास्माद्वा ज्ञानं तदावरणस्य क्षयः क्षयोपशमो वा । संयमेति, संयमनं संयमः, सावद्ययोगात्सम्यगुपरमणम्, संयम्यते नियम्यते आत्मा पापव्यापारसम्भारादनेनेति संयमः शोभना यमाः प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा यस्मिन्निति संयमश्चारित्रम् । दर्शनेति, दृष्टिर्दर्शनं सामान्यविशेषात्मवस्तुवृत्तिसामान्यविषयकबोधः, अनाकारात्मको बोधो वा, दृश्यतेऽनेन वा दर्शनं दर्शनावरणक्षयः क्षयोपशमो वा । लेश्येति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कर्मबन्धस्थितिविधात्री, कृष्णादिद्रव्यसाचिव्यादात्मन: परिणामविशेषः । भव्येति, मुक्तियोग्यो भवतीति भव्यः परमपदयोग्यतावान् विवक्षितपर्यायेण भविष्यतीति वा भव्यः, अनादिपारिणामिकभव्यभावयोगी । सम्यक्त्वेति, सम्यक्शब्दः प्रशंसार्थोऽविरुद्धार्थो वा सम्यगित्यस्य भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा प्रशमसंवेगादिलक्षण आत्मधर्मस्तत्त्वार्थश्रद्धानं वा मिथ्यात्वमोहनीयक्षयोपशमादिजन्यम् । संज्ञीति, संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते यस्य स संज्ञी, विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः प्राणी, संज्ञा देवगुरुधर्मपरिज्ञानं सा विद्यते यस्य स संज्ञीति वा । आहारकेति, आहारणमाहारः, ओजोलोमप्रक्षेपरूपः, तमाहारयतीत्याहारकः । मूलभूता इति, उत्तरभेदा अग्रे वक्ष्यन्त इति
७०६