________________
सूत्र - ३०-३१, नवमः किरणः
६७७
હવે દર્શનાવરણનું સ્વરૂપવર્ણનભાવાર્થ - આત્માના સામાન્ય બોધમાં આવરણનું સાધનભૂત કર્મ, એ “દર્શનાવરણ છે.
વિવેચન - આત્મન ઇતિ. સામાન્ય વિશેષસ્વરૂપી વસ્તુમાં સામાન્યના ગ્રહણરૂપ જે બોધ, એ “દર્શન, તેના આવરણનું કારણ કર્મ, એવો અર્થ છે.
લક્ષણ - વસ્તુમાં રહેલ સામાન્ય વિષયવાળા બોધના આવરણનું કારણપણું હોતે છતે કર્મપણું Mक्षा छे.
જ્ઞાનાવરણ-દર્શનાવરણના આલસ્ય, નિદ્રાનો આદર, ઉંઘણશી સ્વભાવ, હિંસા આદિ પણ વિશેષ હેતુઓ જાણવા.
वेदनीयं लक्षयति - सुखदुःखानुभवप्रयोजकं कर्म वेदनीयम् ।३१।
सुखेति । यद्यपि वेदनीयत्वमनुभवयोग्यत्वं तच्च सर्वकर्मणां तथापि पङ्कजादिशब्दवदस्य शब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयमुच्यते शास्त्रव्यवहारात् । अत एव चानुभवप्रयोजकमित्यनुक्त्वा सुखदुःखानुभवप्रयोजकमित्युक्तम् । तत्र दुःखशोकतापाक्रन्दनवधपरिदेवनानि स्वपरोभयस्थान्यसद्वेद्यस्य भूतव्रत्यनुकम्पादानसरागसंयमादियोगक्षान्तिशौचानि सद्वेद्यस्य हेतवः । विरोधिद्रव्योपनिपातादभिलषितवियोगादनिष्टश्रवणान्निष्ठुर श्रवणादात्मनः पीडालक्षणः परिणामो दुःखम् । अनुग्राहकबान्धवादिसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः । परीवादपरिभवपरुषवचनादिश्रवणनिमित्तापेक्षः कलुषान्तःकरणस्य तीव्रानुशयपरिणामस्तापः । परितापजन्याश्रुपातप्रचुरविलापाङ्गविकाराद्यभिव्यङग्यमाक्रन्दनम् । प्राणिप्राणवियोजनं वधः । संक्लेशप्रवणं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं परिदेवनम् । यद्यपि शोकादयस्सर्वे दुःखजातीया एव तथापि यथा गौरित्युक्ते अनितिविशेषे तत्प्रतिपादनाय खण्डमुण्डशुक्लाद्युपादानं क्रियते तथा दुःखमित्युक्ते विशेषाज्ञानात्कतिपयविशेषप्रदर्शनेन तद्विवेकप्रतिपत्तये शोकादीनामुक्तिर्बोध्या । एतानि च दुःखादीनि कदाचित् क्रोधाद्याविष्टेनात्मना स्वस्मिन् कषायवशात्कदाचित्परस्मिन् जनयति कदाचिच्चाधमर्णसमवाये सत्युत्तमर्णस्य तन्निरोधपरस्य भुजिक्रियानिवृत्तावुभयत्र क्षुत्कृतानि दुःखादीनि सम्भवन्ति । आयुर्नामगोत्रोदयवशाद्भवन्तीति भूतानि प्राणिनः, अहिंसादिव्रताभिसम्बद्धाः वतिनस्तेष्वनुग्रहार्दीकृतचेतसोऽनुकम्पनमनुकम्पा ।
१. दुःखशोकवधास्तापक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्वामी इहाश्रवाः ॥ २. देवपूजागुरूपास्तिपात्रदानदयाक्षमाः । सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ॥