________________
सूत्र - २६-२७, नवमः किरणः
६७१ भवतः, तथा हि ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारासमर्थ मात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया विन्दानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते । तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसम्मोहं वचनगोचरातिक्रान्तं, दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद्वस्तुनिकुरुम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम् । तत एतदर्थप्रतिपत्त्यर्थं दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयञ्च सुखदुःखे जनयतीत्यभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च मोहनीयहेतुकौ, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणं, मोहनीयमूढाश्च जन्तवो बह्वारम्भाः परिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायुर्ग्रहणम् । नरकाद्यायुष्कोदये चावश्यं नरकगत्यादिनामान्युदयमायान्ति, तत आयुरनन्तरं नामग्रहणम् । नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदयेन चोच्चैःकुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयोपशमो भवति राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् । नीचैःकुलोत्पन्नस्य तु दानलाभान्तरायाधुदयो नीचजातीनां तथा दर्शनात्, तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणमिति । यस्य ज्ञानावरणीयं तस्य नियमेन दर्शनावरणीयमस्ति, यस्य दर्शनावरणीयमस्ति तस्यापि नियमेन ज्ञानावरणीयमस्ति । यस्य ज्ञानावरणीयमस्ति, यस्य नियमेन वेदनीयमस्ति, यस्य वेदनीयमस्ति तस्य केवल्यपेक्षया ज्ञानावरणीयं नास्ति, तद्भिन्नापेक्षया चास्ति तत् । मोहक्षये सति यावदनुत्पन्नकेवलज्ञानं तस्य क्षपकस्य ज्ञानावरणीयमस्ति मोहनीयञ्च नास्ति, अक्षपकस्य तूभयमस्ति । मोहनीयसत्त्वे ज्ञानावरणस्यावश्यम्भावनियमात् । ज्ञानावरणेन सह वेदनीयवदायुर्नामगोत्राणामपि भाव्यम् । अन्तरायस्य तु दर्शनावरणीयवत्परस्परं व्याप्यव्यापकभावो विज्ञेयः । दर्शनावरणीयेन समं शेषकर्मणां भावाभावविचारो ज्ञानावरणीयवदेव । वेदनीयेन सहाक्षीणमोहापेक्षया नियमेन मोहनीयमस्ति क्षीणमोहापेक्षया तु मोहनीयं नास्ति, यस्य तु मोहनीयमस्ति तस्य नियमेन वेदनीयमस्ति । एवं वेदनीयेन सहायुर्नामगोत्राणां परस्परं व्याप्यव्यापकभावो विज्ञेयः । अन्तरायस्तु वेदनीयसत्त्वेऽकेवलिनां नियमेनास्ति, केवलिनान्तु नास्ति । अन्तरायसत्त्वे च वेदनीयं नियमेन वर्त्तते । यस्य मोहनीयमस्ति तस्य नियमेनायुरस्ति यस्यायुरस्ति तस्याक्षीणमोहस्य मोहनीयमस्ति क्षीणमोहस्य तु नास्ति । एवमेव यस्य मोहनीयं तस्य नामगोत्रान्तरायाणि नियमात्सन्ति, यस्य तु तानि सन्ति तस्याक्षीणमोहस्य मोहनीयमस्ति परस्य नास्ति । यस्यायुरस्ति तस्य नियमेन