________________
६७०
तत्त्वन्यायविभाकरे ૦ ગોત્રને બે પ્રકૃતિસ્થાનો દેશોપશમનાને યોગ્ય છે. એક અને બે એમ છે. ઉચ્ચ ગોત્રની ઉદ્ગલના નહિ કરનારને બે છે, ઉચ્ચ ગોત્રની ઉદ્વલના કરનારને એક પ્રકૃતિ છે, એમ જાણવું.
भावी शत स्थिति अनुमा-प्रदेश-दृशोपशमना, स्थिति-मनुमा-प्रदेश-संजमानी भाई प्रायः થાય છે, માટે તે દેશોપશમના બીજે સ્થાને જાણવી.
अथ निकाचनामाह - करणसामान्यायोग्यत्वेनावश्यवेद्यतया व्यवस्थापनाप्रयोजकवीर्यविशेषो निकाचना
।२६।
करणेति । येन वीर्यविशेषेण कर्माणि सकलकरणायोग्यत्वेनावश्यवेद्यतया च व्यवस्थापयति स वीर्यविशेषो निकाचनेत्यर्थः । इयमपि भेदादितो देशोपशमनातुल्यैवावसेयेति ॥
वनायनाने । छભાવાર્થ - સઘળા કરણોને અયોગ્ય હોઈ અવશ્ય વેદવાયોગ્યપણાએ વ્યવસ્થાકારક વીર્યવિશેષ, એ 'निजायना' उपाय छे.
વિવેચન - જે વિશિષ્ટ વીર્યથી કર્મોને સકળ કારણોને અયોગ્યરૂપે અને અવશ્ય વેદવાયોગ્યરૂપે આત્મા વ્યવસ્થિત કરે છે, તે વિશિષ્ટ વીર્ય નિકાચના' એવો અર્થ છે.
આ નિકાચના પણ ભેદ વગેરેથી દેશોપશમનાની તુલ્ય જ જાણવી. ઇતિ.
इत्येवं चतुर्विधं बन्धं करणानि च लक्षयित्वाऽथ मूलोत्तरभेदभिन्नं प्रकृतिबन्धं पुण्यपापनिरूपणे निरूपितोत्तरभेदं सम्प्रति मूलभेदप्रदर्शनेन साङ्गं विदधातुकाम आह -
तत्र मूलप्रकृतिबन्धश्च ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायभेदेनाष्ट विधः ।२७।
तत्रेति । ज्ञानदर्शनयोर्द्वन्द्वोत्तरमावरणशब्देन तत्पुरुषस्ततस्सर्वेषां द्वन्द्वः । ज्ञानं दर्शनं हि जीवस्य स्वतत्त्वभूतं तदभावे जीवत्वस्यैवायोगात् चेतनालक्षणत्वाज्जीवस्य, ज्ञानदर्शनयोरपि मध्ये ज्ञानं प्रधानं, तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः । किञ्च सर्वा अपि लब्धयो जीवस्य साकारोपयोगयुक्तस्य जायन्ते न दर्शनोपयोगयुक्तस्य । अपि च यस्मिन् समये सकलकर्म विमुक्तो जीवस्संजायते तस्मिन् समये ज्ञानोपयोगयुक्त एव, न दर्शनोपयोगयुक्तः, दर्शनोपयोगस्य द्वितीयसमये भावात् । ततो ज्ञानं प्रधानं तदावरणं ज्ञानावरणं कर्म, ततस्तत्प्रथममुक्तं । तदनन्तरं च दर्शनावरणं, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगात् । एते च ज्ञानदर्शनावरणे स्वविपाकमुपदर्शयती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते