________________
सूत्र - १४, नवमः किरणः
६२५ यथासंख्यमेकद्वित्रिचतुस्सस्थानिको भवति, निम्बरसवदिक्षुरसवच्च, निम्बादीनामिक्ष्वादीनां हि सहजोऽक्वथितः कटुको मधुरश्च रस एकस्थानिक उच्यते स एव भागद्वयप्रमाणस्स्थाल्यां क्वथितोऽर्धावर्तितः कटुकतरो मधुरतरश्च द्विस्थानिको भवति, भागत्रयप्रमाणश्च क्वथितः कटुकतमो मधुरतमस्त्रिस्थानिको भागचतुष्टयप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिकटुकतमोऽतिमधुरतमश्च भवति, एवं कर्मापि । इयमुपमा सर्वजघन्यस्पर्धकरसस्य जघन्यात्मिका विज्ञेया । स्पर्धकान्यसंख्यानि भवन्ति, उत्तरोत्तरस्पर्धकानि चानन्तगुणरसानि, अशुभानां निम्बोपमवीर्यो य एकस्थानिको रसस्तस्मादनन्तगुणवीर्यो विस्थानिकस्ततोऽप्यनन्तगुणवीर्यस्त्रिस्थानिकस्तस्मादप्यनन्तगुणवीर्यश्चतुस्स्थानिकः । शुभप्रकृतीनां सर्वासां पुनरेकस्थानिको रसो नास्त्येव, इतिपञ्चसंग्रहाभिप्रायः, दानलाभभोगोपभोगवीर्यान्तरायाणां पञ्चानां मतिश्रुतावधिमनःपर्यवज्ञानावरणानां चतुण्ाँ चक्षुरचक्षुरवधिदर्शनावरणानां त्रयाणां पुंवेदसंज्वलनक्रोधमानमायालोभानां मेलनया सप्तदशविधानां कर्मणामेवैकस्थानिकरसवत्त्वं तद्भिन्नाशुभप्रकृतीनामपि एकस्थानिको रसो न भवति, अनिवृत्तिबादरासंख्येयभागेभ्यः परत एव तत्प्राप्तिसंभवेन तत्र च सप्तदशप्रकृतीविना शिष्टानां बन्धस्यैवाभावात् केवलज्ञानदर्शनावरणयोस्तत्र बन्धेऽपि सर्वघातित्वेन तयोढिस्थानिकरसवत्त्वेनैव निवर्त्तनात् । शुभानामेकस्थानिकरसाभावे कारणन्तु संक्लेशस्थानानि विशोधिस्थानानि च प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणानि, प्रासादमारोहतामारोहणे सोपानस्थानानि यावन्ति, तावन्त्येव यथाऽवतरतामपि, तथा यान्येव क्षपकभिन्नो विशुद्धिसंक्लेशस्थानान्यारोहति संक्लिश्यमानस्तावत्स्थानान्यवरोहति तेष्वेवावतारात् विशुद्धिस्थानानि तु विशेषाधिकानि क्षपक श्रेणिकामारोहतः क्षपकस्य विशुद्धिस्थानेषु पुनस्संक्लेशाभावतो निवर्त्तनाभावात् अतस्तानि विशुद्धिस्थानान्येव, न तु संक्लेशस्थानानि तस्माद्विशुद्धिस्थानानामधिकत्वं तथाचात्यन्तविशुद्धौ वर्तमानश्शुभप्रकृतीनां चतुस्स्थानिकं रसमभिनिर्वर्त्तयति, अत्यन्तसंक्लेशे वर्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति । या अपि वैक्रियतैजसकार्मणाद्याश्शुभा नरक प्रायोग्यास्संक्लिष्टोऽपि बध्नाति तासामपि स्वभावतस्सर्वसंक्लिष्टोऽपि द्विस्थानिकमेव रसं विदधाति । येषु मध्यमाध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते नैकस्थानिको मध्यमपरिणामत्वादेव । तत्र गिरिरेखासदृशैरनन्तानुबन्धिभिः कषायैरशुभप्रकृतीनां चतुस्स्थानिकरसबन्धः, आतपशोषिततडागमहीरेखासदृशैरप्रत्याख्यानावरणैस्त्रिस्थानिकरसबन्धः, वालुकारेखासदृशैः प्रत्याख्यानावरणैर्द्विस्थानिकरसबन्धः, जलरेखासदृ