________________
सूत्र - ११, नवमः किरणः
६१७ ब्धिविशेषप्रत्ययोऽभिसन्ध्यनभिसन्धिपूर्वकत्वात्सकरणः, अकरणश्च भवति । तत्रालेश्यस्य केवलिनः कृत्स्त्रयो यदृश्ययोरर्थयोः केवलज्ञानं केवलदर्शनञ्चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः । स च नेहाधिक्रियते वीर्यान्तरायक्षयोपशमजन्यवीर्यविशेषस्यैव सकरणस्य कर्मसम्बन्धकस्याधिकृतत्वात् । तत्रौदारिकादि शरीरस्यात्मनोवीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यपुञ्जसाचिव्याज्जीवव्यापारो वाग्योगः, मनसा करणेन युक्तस्य जीवस्य योगो जीवपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोगः । सोऽयं मनोव्यापारो वाग्व्यापारश्च प्रत्येकं सत्यमृषासत्यमृषाऽसत्यमृषाभेदेन चतुर्विधत्वादुभयमेलनेनाष्टविधमनोवाग्जन्यो योग इत्याशयेनाह सत्यासत्येति । मिश्रः सत्यमृषारूपो व्यवहारोऽसत्यमृषारूपः । काययोगस्य भेदमाह तथेति तत्र शुद्धा औदारिकवैक्रियाऽऽहारककार्मणशब्दा व्याख्याता औदारिकमिश्रस्तूच्यते औदारिक एवापरिपूर्णो मिश्र इति, यथा गुडमिश्रं दधि न गुडतया नापि दधितया व्यपदिश्यते ताभ्यामपरिपूर्णत्वादपितु मिश्र इति तद्वदत्रापि औदारिकमिश्रमौदारिकत्वेन कार्मणत्वेन वा न व्यपदिश्यते किन्तु औदारिकमिश्रतयेति, एवं वैक्रियाऽऽहारकमिश्रावपि । यद्वा शुद्धा औदारिकाद्यास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति । तत्रोत्पत्तावौदारिककायः कार्मणेन, औदारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले च वैक्रियाहारकाभ्यां मिश्रो भवतीत्यौदारिक मिश्रः । देवाद्युत्पत्तौ कार्मणेन वैक्रियमिश्रः कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण । आहारकमिश्रस्तु साधिताऽऽहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति । कार्मणस्तु विग्रहे केवलिसमुद्घाते चेति । एतेभ्यो जन्या व्यापाराःसप्त कायव्यापारा इति मिलित्वा पञ्चदशयोगा भवन्तीतिभावः । ननु मनोवाग्योगाः काययोगविशेषा एव, शरीरिणां कस्याञ्चिदप्यवस्थायां काययोगस्यानिवृत्तेः, अशरीरिणामेव तन्निवृत्त्यभ्युपगमात् तथा च मनोवाग्योगास्तद्भिन्ना न सन्तीति चेदुच्यते, एकस्यैव काययोगस्योपाधिभेदात्तथाव्यवहारात् । येन काययोगेन हि मनोवाग्द्रव्याणामुपादानं करोति स काययोगः, येन संरम्भेण वचोद्रव्याणि मुञ्चति स वाग्योगः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति स मनोयोग इति । तथाच मनोवाग्योगौ काययोग एव, कायेनैव तद्रव्यग्रहणात्, प्राणापानवत् तथाहि प्राणापानव्यापारः कायेनैव तद्र्व्यग्रहणात्कायिकयोगान्न भिद्यते तथा मनोवाग्योगावपि, न चेत्तथा, प्राणापानयोगोऽपि योगान्तरं स्यान्न चैतदिष्टं, तस्मात्काययोग एवाऽयं तद्वदिमावपि । न च मनोवाग्योगवत्प्राणापानव्यापारः किमितिनोक्तः, काययोगत्वस्याविशेषात्, अन्यथा प्राणापान