________________
५९६
तत्त्वन्यायविभाकरे अत्र ध्याने षोडशपादात्मक एकेन्द्रियविकलेन्द्रियस्थावरसंश्यसंज्ञिमनुजगतित्रसकायपञ्चेन्द्रिययोगत्रयकषायचतुष्टयाहारकानाहारकोपशमक्षयोपशमक्षायिकसम्यक्त्ववेदत्रिक ज्ञानत्रिकदर्शनत्रिकभव्याभव्यमिथ्यात्वसास्वादनमिश्राविरतिदेशविरतिगतित्रिकाज्ञानत्रिकलेश्याषट्ककेवलज्ञानदर्शनसामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातमन:पर्यवान् षट्त्रिंशद्विधानाश्रित्य विचार्यमाणे, एकेन्द्रियविकलेन्द्रियस्थावरासंज्ञिनां मनसोऽभावेन नैकविधमपि ध्यानं सम्भवति, मनुजगतित्रसकायपञ्चेन्द्रियक्षायिकसम्यक्त्वभव्येषु प्रत्येक षोडशविधध्यानस्य सम्भवः, योगत्रयाहारकत्वयोः पञ्चदशविधध्यानसामानाधिकरण्यस्य सम्भवः, व्युपरतक्रियात्मकध्यानविशेषसामानाधिकरण्यासम्भवात् । उपशमसम्यक्त्वकषायचतुष्टयवेदत्रिकेषु त्रयोदशविधध्यानसहचारित्वस्य सम्भवः, क्षीणमोहादिगुणस्थानेष्वेषामसम्भवेन तत्स्थानभाव्येकत्ववितर्कसूक्ष्मक्रियव्युपरतक्रियैस्सहचारित्वासम्भवात् । ज्ञानत्रिक दर्शनत्रिकसंज्ञित्वेषु चतुर्दशविधध्यानसहवृत्तित्वसम्भवः, मनोविरहकालभाविसूक्ष्मक्रियव्युपरतक्रियध्यानविशेषसहवृत्तित्वासम्भवात् । अनाहारकत्वकेवलज्ञानदर्शनेषु सूक्ष्मक्रियव्युपरतक्रियध्यानविशेषसामानाधिकरण्यमेव । त्रयोदशचतुर्दशगुणस्थानभावित्वात्तेषाम् । इतरध्यानानां मनोविषयकत्वाच्च । पञ्चसु लेश्यासु क्षायोपशमिकसम्यक्त्वे च द्वादशध्यानसहचारित्वं, शुक्लध्यानसामानाधिकरण्याभावात् । शुक्ललेश्यायाश्च व्युपरतक्रियातिरिक्त ध्यानविशिष्टत्वं, अयोगिनि लेश्यावैधुर्यात् । सामायिकछेदोपस्थापनीययोनिदानातिरिक्तातभेदत्रयं धर्मध्यानचतुष्टयं पृथक्त्ववितर्कञ्च भवति । परिहारविशुद्धिकस्याऽनन्तरोक्तानि पृथक्त्ववितर्कविरहितानि भवन्ति श्रेणिप्राप्त्यभावात् । सूक्ष्मसम्परायस्य पृथक्त्ववितर्कं धर्मचतुष्टयं वा । दशमगुणस्थानमात्रवृत्तित्वात्तस्य यथाख्यातस्य चतुर्विधं शुक्लध्यानं धर्मध्यानं वा । मनःपर्यवज्ञानिनो निदानातिरिक्तमार्त्तत्रयं धर्मचतुष्टयं शुक्लस्याद्यद्वयञ्च भवति । गतित्रिकाज्ञानत्रिकाविरतिदेशविरत्यभव्यतामिथ्यात्वसास्वादनमिश्रभावानां ध्यानाष्टकसाहचर्य, धर्मशुक्लाभावादिति दिक् ॥
व्युपरताय नाम शुभसध्यानने छભાવાર્થ - સૂક્ષ્મ એવા કાયની પરિસ્પદ આત્મક ક્રિયાના નિરોધક જીવનું ધ્યાન, એ ચુપરતક્રિય કહેવાય છે. આ પણ “અપ્રતિપાતી છે. પ્રાથમિક બે શુકલધ્યાનો અગિયારમા અને બારમા, ગુણસ્થાનકમાં હોય છે અને અંતિમ બે શુકલધ્યાનો કેવલીને જ ક્રમથી તેરમા અને ચૌદમાં ગુણસ્થાનકમાં હોય છે.
વિવેચન - મેરૂની માફક સકળ આત્મપ્રદેશોની નિષ્પકંપરૂપ શૈલેશી અવસ્થામાં રહેલ, મન-વચનકાયારૂપી ત્રણ યોગોથી રહિત જીવોનું ધ્યાન, તે સુપરતક્રિય' કહેવાય છે.