________________
सूत्र:- ३८, अष्टमः किरणः
५९५
निरुद्धेति । शैलेश्यवस्थावस्थितानां मनोवाक्काययोगत्रयरहितानां यद्ध्यानं तद्व्युपरत -- क्रियमुच्यते । ननु शुक्लध्यानस्यान्तिमभेदद्वये मनसोऽभावेन मनोविशेषरूपध्यानत्वं कथमस्तीति चेन्न मनोमात्रस्य ध्यानरूपत्वाभावात् किन्तु सुनिश्चलस्यैव योगस्य तथात्वात् तस्य केवलिनस्सयोगिनस्सूक्ष्मक्रियात्मके ध्यानेऽक्षतेः कायात्मकयोगस्य सुनिश्चलत्वात् न च तथाऽप्ययोगिनों ध्याने चतुर्थे योगस्यापि कायस्याभावेन तत्राऽनुपपत्तित्वादवस्थ्यमिति वाच्यम्, कुलालचक्रभ्रमणवन्मनःप्रभृतियोगोपरमेऽपि पूर्वप्रयोगाद्यानोपपत्तेः द्रव्यमनसोऽभावेऽपिं भावमनसस्सत्त्वेन ध्यानसम्भवात् चेतसो ज्ञानरूपत्वेनैकविषयस्थिरीभूतज्ञानपरिणामरूप ध्यानस्यात्राप्यक्षतत्वाच्च ॥ प्रवर्धमानपरिणामविशेषवत्त्वादिदमप्यप्रतिपातीत्याहेदमपीति । शुक्लध्यानस्याधिकारिणमाहाद्ये इति । पृथक्त्वक्तिकैकत्वक्तिर्के, इत्यर्थः, एकादशद्वादशगुणस्थानयोरिति । यथाक्रममिति शेषः, तथा च पृथक्त्ववितर्कमेकादशे,. एकत्ववितर्क द्वादश इत्यर्थ: : । अन्तिमावर्धिप्रदर्शनपरमिदं, नाग्रिमगुणस्थानवर्त्तिनी में भक्त इति भावः । तेन पृथक्त्ववितर्कस्याऽपूर्वगुणस्थानादिवर्तिनस्सम्भवेऽपि न क्षतिः । एकत्ववितर्कन्तु द्वादशगुणस्थान एव । अपूर्वगुणस्थानादाद्वादशमिदमपीति केचित् । अन्त्ये द्वे इति सूक्ष्मक्रियव्युपरतक्रिये इत्यर्थः, सूक्ष्मक्रियं संयोगिनो व्युपरतक्रियमयोगिन इति तात्पर्यम् । अत्र भावनादेशकालासनविशेषा धर्मध्यानवत् । ध्यातव्या अवान्तरभेदा ध्यातारश्च मूल एक प्रदर्शिताः क्षान्तिमार्दवार्जवादीन्यालम्बनानि, मनोयोगनिग्रहस्ततो वाग्योगनिग्रहस्तत: काययोगनिग्रहः इति भवान्तकाले केवलिन आश्रित्य योगनिग्रहक्रमः छास्थ स्त्रिभुवनविषयमन्तः: करणं प्रतिवस्तु त्यागलक्षणक्रमेण संकोच्याणौ विधायाऽतीव निश्चलश्शुक्लं ध्यायति, जिनस्तु चरमद्वय़ध्याताः ततोऽपिः प्रयत्नविशेषान्मनोऽपनीयाविद्यमानान्तःकरणो भवति । तत्राऽपि शैलेशीमप्राप्तोऽन्तर्मुहूर्तेनाऽऽद्यं शैलेश्याञ्च द्वितीयं ध्यायतिः । आश्रवद्वारापायान् संसारात शुभानुभावं अनन्तभवंसन्तानं वस्तुविपरिणामञ्च चिन्तयतीति भावना, आद्यद्वयभेदापेक्षयाऽस्य भावना, शुक्ललेश्या प्रथमत्रयभेदेऽन्तिमे च लेश्याविरहों बोध्यःः । अवधासंमोहविवेक व्युत्सर्गाः लिङ्गानि । शुभाऽऽस्रवनिर्जरानुत्तरामरसुखानि द्वयोश्शुक्लयो:: अन्त्ययोस्तु परमनिर्वाणं फलमिति बोध्यम् ॥
१. काप्रयोग एव सूक्ष्मक्रियस्य भावात् एकत्ववितर्कस्य कायवाङ्मनोऽन्यतमयोग एव भावात् पृथक्त्ववितर्कस्य तु मनोवाक्काययोगव्यापारवत एव भावादिति भेदो विज्ञेयः ॥ २. अणोरपीत्यर्थः ॥ ३. भाविचारकाद्यपेक्षयेति भावः ॥