________________
५८६
तत्त्वन्यायविभाकरे कुलोऽसंख्येयद्वीपसमुद्रपरिवेष्टितः ऊर्ध्वलोक ऊर्वीकृतमृदङ्गाकृतिरुत्कृष्टशुभपरिणामोपेतः कल्पोपपन्नकल्पातीतदेवव्याप्त इत्येवं विचारणा, द्रव्याणां तावद् धर्माधर्मी लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, आत्मान उपयोगलक्षणाश्शरीरादर्थान्तरभूता अरूपाः कर्तार उपभोक्तारो निजकर्मणां शरीराकारा मुक्तौ त्रिभागहीनाकाराः, कालो वर्तनादिपरिणामी समयात्मकः, पुद्गलद्रव्यं शरीरादिकार्य, द्रव्यञ्चोत्पादव्ययध्रौव्ययुक्तमनन्तधर्मात्मकं नित्यानित्यैकानेकभेदाभेदसदसदादिस्वरूपमित्येवं प्रणिधानं चतुर्थं धर्मध्यानमित्यर्थः, ननु भावनानां धर्मध्यानेऽन्तर्भावस्तज्जातीयत्वादिति चेन्न, अनित्यादिविषयविचिन्तनस्य ज्ञानरूपत्वे भावनाव्यपदेशात्, एकाग्रचिन्तानिरोधरूपत्वे धर्मध्यानत्वादित्येवं प्रवृत्तिनिमित्तभेदात् । ध्यानोपरमकालभावित्वाच्च भावनानां ततोर्थान्तरत्वात् । अस्य ध्यातारमाहाप्रमत्तत इति, सर्वप्रमादै रहिता अप्रमत्तास्तेभ्य आरभ्य क्षीणमोहपर्यन्तवर्तिनोऽस्य ध्यातारः, अत्र लक्षणघटकतया ध्यानकारणभूतो ध्यातव्यवस्तुनिर्देशो धर्मध्यानावान्तरभेदः, अप्रमत्तत इत्यादिना ध्यातारश्च प्रदर्शिता उपलक्षकतया । तेन ज्ञानदर्शनचारित्रवैराग्यविषया भावनाः, योग्यदेशकालाऽऽसनविशेषा वाचनाद्यालम्बनं मनोनिरोधादिक्रमः, अनित्यत्वादिभावनाः लेश्याविशेषः श्रद्धानादिलिङ्गं सुरलोकादिफलं च गृह्यते । सदा हि ज्ञानविषयकोऽभ्यासोऽशुभव्यापारनिरोधेन चेतस एकस्मिन् विषयेऽवस्थापको विशुद्धिकृद् भवनिर्वेदकृच्च भवति, एवं च ज्ञानेन ज्ञातपरमार्थो निष्प्रकम्पं ध्यायति । शङ्कादिदोषरहितत्वात्प्रशमस्थैर्यादिगुणगणोपेतः तत्त्वान्तरेऽभ्रान्तचित्तो दर्शनशुद्ध्या ध्यानाय प्रवर्त्तते, चारित्रभावनयोपात्तकर्मक्षपणमनुपात्ताशुभानादानं सम्यक्त्वादि शुभकर्मादानमयत्वेन ध्यानञ्च प्राप्नोति, जगत्तत्त्वस्य सम्यग्ज्ञानाद्विषयस्नेहसङ्गाभावादिह लोकादिसप्तभयराहित्यादिहपरलोकाकांक्षावैधुर्यात् तथाविधक्रोधादिराहित्याच्च वैराग्यभावितमना ध्याने निश्चलो भवति, अपरिणतयोगादीनां युवत्यादिव्यतिरिक्तापेक्षया विजनो देशो ध्यानयोग्यदेशः, युवत्यादियुतदेशस्तु सर्वदा वर्ण्य एव । परिणतयोगानां सुनिश्चलमनसां तु जनाकीर्णो जनशून्यो वा देशो ध्यानाय कल्पते । यत्र काले मनोयोगादिस्वास्थ्यमुत्तमं लभते स एव ध्यानकालो न तु दिवसनिशावेलाविशेषाः । या काचिन्निषण्णतादिरूपा देहावस्था प्रकृतध्यानानवरोधिनी स एवाऽऽसनविशेषो ग्राह्यो न त्विदमेवासनं कार्यमिति नियमः । श्रुतधर्मानुगतानां वाचनप्रच्छनपरिवर्त्तनानुचिन्तनादीनां चारित्रधर्मानुगतानां सामायिकादिसामाचारीणां सम्यगासेवनया वरं धर्मध्यानं समारोहति,