________________
सूत्र - ३३, अष्टमः किरणः
५८५ विषयकपर्यालोचनञ्चेति । तत्रोपदेष्टरभावेऽपि मन्दबुद्धित्वेऽपि कर्मोदयात्सूक्ष्मत्वाच्च वस्तूनां लिङ्गनिदर्शनालाभेऽपि अवितथवादिनः क्षीणरागद्वेषास्सर्वज्ञा अन्यथासन्तमन्यथा न जानन्त्येव न भाषन्त एव तत्कारणाभावात् अतस्सर्वथा सत्यमिदं तच्छासनं संसारसागरोत्तारकञ्चेत्याज्ञां प्रमाणीकृत्यार्थावधारणमाज्ञाविषयकं पर्यालोचनरूपं प्रथमं धर्मध्यानम् । रागद्वेषकषायेन्द्रियवशीभूतानां प्राणिनां शारीरमानसदुःखचिन्तनं द्वितीयम्, रागद्वेषादिभिः प्रदुष्टान्तःकरणा जन्तवो मूलोत्तरप्रकृतिविभागसम्भूतजन्मजरामरणगहनविपिनपरिभ्रमणपरिश्रमप्रभवप्रभूतदुःखाकुलास्सांसारिकसुखस्पृहयालवश्शरीरेन्द्रियाद्याश्रवद्वारप्रवाहपतिता मिथ्यात्वाज्ञानाविरतिपरिणता यथायोगमातरौद्रध्यानविशेषाभ्यां पर्याप्तं कर्मजालमादाय दीर्घकालं नरकादिगतिष्वपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्याक्रोशभाजः क्लिश्यन्त इत्येवं प्रत्यवायप्रायेऽस्मिन् संसारे उद्वेगार्थमपायानां विचिन्तनं द्वितीयं धर्मध्यानम् । विपाकः कर्मफलानुभवस्तद्विवेकः प्रति प्रणिधानं विपाकविषयकपर्यालोचनं, तत्र ज्ञानावरणाद्यष्टविधं कर्मप्रकृतिस्थित्यनुभावप्रदेशभेदभिन्नमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं नरकादिविविधविपाक, तद्यथा ज्ञानावरणादुर्मेधस्त्वं, दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च, असद्वेद्याद् दुःखं सद्वेद्यात्सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः, नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिर्गोत्रादुच्चनीचकुलोत्पत्तिः अन्तरायादलाभ इति, एवं निरुद्धचेतसः कर्मविपाकानुस्मरणं तृतीयं धर्मध्यानं । लोकद्रव्यसंस्थानस्वभावावधानं संस्थानविषयकपर्यालोचनम्, लोकस्य द्रव्यस्य च संस्थानमाकारविशेषः, लोकस्याधोमुखमल्लसंस्थानमधोलोकः, तदुर्ध्वं झल्लाकृतिस्तिर्यग्लोकः, स च ज्योतिर्व्यन्तरा
१. अपायोपायजीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति चतुर्विधेन संक्षिप्तमपि दशविधं तत् । दुष्टमनोवाक्कायव्यापाराणामपायः कथं हेयः स्यादित्येवंभूतस्संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयं । असंख्येयप्रदेशात्मकसाकारानाकारोपयोगलक्षणादिस्वकृतकर्मफलोपभोगित्वादिचिन्तनं जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकत्वादिविचारोऽजीवविचयम् । विपाकविचयं टीकायामुक्तमेव । प्रेत्य स्वकृतकर्मफलभोगार्थं पुनः प्रादुर्भावो भवः, स चारघट्टघटीयंत्रवन्मूत्रपुरीषांत्रतंत्रनिबद्धदुर्गन्धजठरपुरकोटरादिष्वजस्त्रमावर्त्तनं, न चाऽत्र किञ्चिज्जन्तोः स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यत इत्यादि भवसंक्रांतदोषपर्यालोचनं भवविचयम् । संस्थानविचयन्तु टीकायामुक्तम् । आज्ञाविचयमपि तत्रैव आगमविषयप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकागमस्य कषच्छेदतापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयमिति ॥