________________
सूत्र - ६-७, अष्टमः किरणः
५५३
'मोथी भनो क्षय' तो उत्सर्ग (२०४०) छे. वणी 6त्स[ तपथी तत्पशानथी, वयित्કથંચિત્ કર્મના ક્ષયનો સ્વીકાર કરવાથી અપવાદવિષય બને છે, માટે લક્ષણનો અસંભવ નથી.
તપનો બાહ્ય અને અત્યંતર રૂપે બે પ્રકારો પ્રદર્શિત હોવાથી હવે બાહ્ય તપનો વિભાગ કરે છે. तत्र तपसो बाह्याभ्यन्तररूपेण द्वैविध्यस्य प्रदर्शितत्वादधुना बाह्यं तद्विभजते
तत्र बाह्यतपांसि अनशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपेण षड्विधानि ।६।
तत्रेति । अनशनादिरूपे तपसि बाह्यत्वं अन्नादिबाह्यद्रव्यनिमित्तकत्वात् परप्रत्यक्षविषयत्वात् प्रायो बाह्यशरीरतापकत्वात् तीर्थिकगृहस्थानुष्ठेयत्वाच्चेति विज्ञेयम् ॥
બાહ્ય તપभावार्थ - पाय तपो अनशन-6नोहर-वृत्तिसंक्षे५-२सत्या-5145लेश-संदीनता ३पे ७ (६) प्रा२नो छे.
વિવેચન - તàતિ. અનશન આદિરૂપ તપમાં બાહ્યપણું એટલે અન્ન આદિરૂપ બાહ્ય દ્રવ્યના ત્યાગરૂપ નિમિત્તજન્યપણું હોઈ અને પરને (બીજાઓને) પ્રત્યક્ષ વિષયપણું હોઈ, પ્રાયઃ બાહ્ય શરીરસ્ય ધાતુ તાપકપણું હોઈ અન્યતીર્થિક (જૈનેતર) ગૃહસ્થોથી અનુષ્ઠાનવિષય હોઈ બાહ્યપણું છે, એમ સમજવું.
सम्प्रत्यनशनं लक्षयति - इत्वरं यावज्जीवं वाऽऽहारपरित्यागोऽनशनम् ७।
इत्वरमिति । इत्वरं परिमितकालं यथा नमस्कारसहितादि षण्मासपर्यन्तं महावीरस्वामितीर्थे, संवत्सरपर्यंन्तं श्रीनाभेयतीर्थे, यावदष्टौ मासान् द्वाविंशतिमध्यमतीर्थकरतीर्थेषु । पादपोपंगमनेङ्गिनीभक्तप्रत्याख्यानभेदतो यावज्जीवमनशनं त्रिविधम् । अत्राद्यमपि निर्व्याघातसव्याघातभेदेन द्विविधम् । प्रव्रज्याशिक्षापदादिक्रमतो जराजर्जरितशरीरस्य चतुर्विधाहारप्रत्याख्यानपूर्वकं जन्तुशून्यस्थण्डिलमाश्रित्य निपत्यैकस्मिन्नेव पार्श्वे प्रशस्तध्यानं भृत्वा परिस्पन्दशून्यतया जीवोत्क्रमणं यावद्वर्त्तनं निर्व्याघातम् । आयुस्सद्भावेऽपि समुपजातव्याधिनोत्पन्नमहावेदनेन यदुपक्रान्तिः क्रियते तत्सव्याघातम् । श्रुतविहितक्रियाविशेषविशिष्टं
१. पादपोषगमनमविचारं इङ्गिनीभक्तप्रत्याख्याने सविचारे, चेष्टात्मकेन कायसम्बन्धिना वर्तमानत्वात्सविचारं, तद्विपरीतमविचारं, इङ्गिनीभक्तप्रत्याख्याने सपरिकर्म, स्थाननिषदनत्वग्वर्तनादिना विश्रामणादिना च वर्तमानत्वात् एकत्र स्वयमन्येन वा कृतस्य, अन्यत्र तु स्वयं विहितस्योद्वर्त्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात् । अपरिकर्म पादपोपगमनं निष्प्रतिकर्मताया एव तत्राभिधानात् ॥