________________
अष्टमः किरणः अवसरसङ्गत्या संवरे सति निर्जरायाः फलवत्त्वेन प्रयोज्यतासङ्गत्या वा संवरनिरूपणानन्तरमभिधीयमानां निर्जरां लक्षयति -
क्रमेण बद्धकर्मपुद्गलानां तपोविपाकान्यतरेण विध्वंसो निर्जरा ।१।
क्रमेणेति । तपो बाह्याऽभ्यन्तरतया द्विविधं, तेन हि नूतनकर्मणां प्रवेशाभावः पूर्वसञ्चितकर्मणां च परिक्षयो भवति, तत्राऽऽद्यस्संवररूपो द्वितीयश्च निर्जरारूपः, तस्मात्तप उभयस्याऽपि हेतुः । विपाको गतिनामादिकर्मणां नामानुगुणमुदयोऽनुभवः, ताभ्याञ्च जीवेन बद्धानां कर्मपुद्गलानां ज्ञानावरणादिरूपाणां विध्वंसः कर्मपरिणतेविगमो जायते, सैर्व निर्जरेत्यर्थः । अवस्थानहेत्वभावेन ह्यनुभूताः कर्मपुद्गला न पुनरावरणादिरूपेणाऽवतिष्ठन्ते, तथा च तपोविपाकान्यतरजन्यबद्धकर्मविध्वंसत्वं लक्षणम् । जन्यान्तन्तु तत्र कारणत्वप्रतिपादनपरमेव । तदपि कारणमसाधरणं विज्ञेयम् ।।
શ્રી નિર્જરાલક્ષણ નામક અષ્ટમ કિરણ અવસર સંગતિથી સંવર હોયે છતે નિર્જરાનું ફળ થાય છે માટે અથવા પ્રયોજ્યતા સંગતિથી સંવરનિરૂપણ પછી નિર્જરાનું લક્ષણ કરે છે.
ભાવાર્થ - ક્રમથી બાંધેલ કર્મપુગલોનો તપ અથવા વિપાકથી વિધ્વંસ, એ નિર્જરા' કહેવાય છે. વિવેચન – બાહ્ય અને અત્યંતરરૂપે બે પ્રકારનું તપ છે. ખરેખર, તે તપથી નવા કર્મોના પ્રવેશનો અભાવ અને પહેલાંના બાંધેલા કર્મોનો ક્ષય થાય છે. ત્યાં પહેલું ફળ સંવરરૂપ છે અને બીજું ફળ નિર્જરારૂપ છે, તેથી તપ-સંવર અને નિર્જરારૂપ બે પ્રકારના ફળનો હેતુ છે.
१... विवादाध्यासितः पुरुषो निर्जीर्णघातिचतुष्कः केवलज्ञानवत्त्वात् उभयवादिसिद्धतादृक्पुरुषवत् इत्यन्वयव्यतिरेकिणः, अन्वयासिद्धौ वा यो न जीर्णघातिचतुष्को नासौ केवलज्ञानवान् यथाऽस्मदादिरिति केवलव्यतिरेकिणो वाऽनुमानात् निर्जराऽस्मदादिभिरवसीयते, आप्तागमाच्च । सर्वज्ञेन तु स्वानुभवप्रत्यक्षेणेति ॥ २. महाव्रतादिषु हेत्वन्तरेषु सत्स्वपि तपस एव प्रधानतया निर्जराङ्गत्वादिति भावः ॥