________________
५४०
तत्त्वन्यायविभाकरे
भावद्वारमभिधत्ते -
भावद्वारे - सामायिकाद्याश्चत्वारः क्षायोपशमिकभावे स्युः । यथाख्यातस्त्वौपशमिके क्षायिके च स्यादिति । ९१ ।
भावद्वार इति । यद्यपि परिहारविशुद्धिकेतरेषां केषाञ्चित् क्षपकश्रेणिसम्भवस्तथापि सज्वलनलोभस्य दशमं यावद्भावान्न क्षायिको भाव इत्यत आह सामायिका इति । यथाख्यातस्त्विति, एकादशगुणस्थानापेक्षयौपशमिकत्वं तदूर्ध्वगुणस्थानापेक्षया तु क्षायिकत्वमिति भावः ॥
(34) मावद्वारભાવાર્થ - સામાયિક આદિ ચાર (૪) સંયતો લાયોપથમિક ભાવમાં થાય છે. યથાખ્યાત સંયત તો ઔપથમિક ભાવમાં અને ક્ષાયિક ભાવમાં હોય છે. ઇતિ.
વિવેચન - જો કે પરિહારવિશુદ્ધિક સિવાયના કેટલાક સંયતોમાં ક્ષપકશ્રેણિનો સંભવ છે, તો પણ સંજ્વલન લોભ દશ (૧૦)માં ગુણસ્થાનક સુધી હોવાથી ભાવિકભાવ નથી. માટે કહે છે કે-“સામાયિકાદા' लि.
૦ યથાવાતવસ્તુ'= યથાખ્યાત સંયત તો અગિયાર(૧૧)માં ગુણસ્થાનની અપેક્ષાએ ઔપથમિક ભાવમાં છે. તે અગિયાર(૧૧)માં ગુણસ્થાનકથી આગળ ઉપરના ગુણસ્થાનકની અપેક્ષાએ તો સાયિકભાવમાં છે, એવો ભાવ છે.
परिमाणद्वारमाह
परिमाणद्वारे-सामायिकाः प्रतिपद्यमानापेक्षयैकस्मिन् काले कदाचिद्भवेयुः कदाचिच्च न । यदा भवेयुस्तदा जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतो द्विसहस्त्राद्यावन्नवसहस्रम् । पूर्वप्रतिपन्नापेक्षया जघन्यत उत्कृष्टतश्च द्विसहस्त्रकोटीतो यावन्नवसहस्रकोटि भवेयुः । छेदोपस्थापनीयास्तु प्रतिपद्यमानापेक्षया कदापि स्युः कदापि न । यदा स्युस्तदा जघन्येनैको द्वौ त्रयो वोत्कृष्टतो द्विशताद्यावन्नवशतम् । प्रतिपन्नापेक्षया तु क्वचिन्न स्युः क्वचिच्च जघन्येनोत्कृष्टतश्च द्विशताद्यावन्नवशतकोटि स्युः । ९२ । ___ परिमाणद्वार इति । यावन्नवसहस्रकोटीति, कोटीसहस्रपृथक्त्वमित्यर्थः । यद्यपि सर्वसंयतानामेतावन्मात्रमानत्वेनास्यैव तावन्मानत्वे इतरसंयतमानमादाय संयतानामाधिक्यशङ्का स्यात् तथापि कोटीसहस्रपृथक्त्वस्य द्वित्र्यादिकोटीसहस्ररूपं कल्पयित्वा इतरेषां संख्यायाः प्रवेशेनोक्तमानातिरेकसम्भवो व्युदसनीयः । द्विशतादिति, द्विशतकोटीतो यावन्नवशतकोटीत्यर्थः,