________________
सूत्र - ७४, सप्तमः किरणः ।
५१९ અગિયાર(૧૧)મા અને બાર(૧૨)માં ગુણસ્થાનવર્તીઓમાં કેવલ શુકલલેશ્યા હોય છે, ચૌદ (૧૪)માં ગુણસ્થાનમાં તો વેશ્યા હોતી નથી.
यौ६(१४)मा गुरास्थानमा तो यथाण्यात संयत वेश्या १२नो छ, उभ3-योगनो समापछ.
परिणामद्वारमाह__ परिणामद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिका वर्द्धमानहीयमानस्थिरपरिणामवन्तः । सूक्ष्मसम्परायः श्रेण्यां वर्धमानो हीयमानश्च स्यान्न स्थिरपरिणामवान् । तत्कालस्तु जघन्यतस्समय एक उत्कृष्टतोऽन्तर्मुहूर्तपरिमाणः । एवमाद्यानां कालो ज्ञेयः । यथाख्यातस्तु न हीयमानपरिणामवान् । वर्धमानपरिणामकालस्तु जघन्यत उत्कृष्टतश्चान्तर्मुहर्तमानमिति । स्थितिस्तु जघन्येनैकस्समयः । उत्कृष्टतस्त्रयोदशगुणस्थानस्थस्य किञ्चिदूनपूर्वकोटिपर्यन्ता बोध्येति । ७४ । ____ परिणामद्वार इति । त्रिविधः परिणामश्शुद्धेर्वर्धमानहीयमानस्थिरभेदात् । शुद्धरुत्कर्षप्राप्तिर्वर्धमानपरिणामः, अपकर्षप्राप्तिीयमानपरिणामः, अवस्थानञ्च स्थिरपरिणामः । त्रिविधोऽप्ययं परिणामस्सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकानां भवतीत्याह सामायिकेति । न स्थिरपरिणामवानिति, गुणस्थानकस्वभावादिति भावः । ननु सूक्ष्मसम्परायसंयतस्य वर्धमानहीयमानपरिणामौ कियत्कालं भवत इत्यत्राह तत्कालस्त्विति, वर्धमानो हीयमानश्च काल इत्यर्थः । जघन्यत इति । तावेकसमयवतिनावित्यर्थः । प्रतिपत्तिसमयानन्तरमेव मरणसम्भवादिति भावः । सिंहावलोकनन्यायेन सामायिकादित्रयाणां परिणामकालमाहाऽऽद्यानामिति । काल इति, वर्धमानकालो हीयमानकालोऽवस्थितकालो वेति भावः । तत्र वर्धमानपरिणामकाले बाधिते कषायेणैकसमयमनुभवनाज्जघन्येनैकस्समयः, वर्धमानपरिणामस्यान्तर्मुहूर्त्तकालावस्थानस्वभावत्वादुत्कर्षेणान्तर्मुहूर्तः । एवमेव हीयमानावस्थितपरिणामौ बोध्यौ । यथाख्यातस्य वर्धमानावस्थितपरिणामावेवेत्याह यथाख्यातस्त्विति । प्रत्येकं कालमानमाह वर्धमानेति । यः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशी प्रतिपन्नस्तस्यैवं बोध्यः, तदुत्तरकालं तद्व्यवच्छेदात् । एकस्समय इति, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणादिति भावः । किञ्चिदूनेति, नववर्षोनेत्यर्थः । पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेषु गतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामश्शैलेशी यावद्विहरति शैलेश्याञ्च वर्द्धमानपरिणामः स्यात्, अतो देशोनेत्युक्तमिति भावः ॥