________________
सूत्र - ७२-७३, सप्तमः किरणः
५१७
છેદોપસ્થાપનીયમાં શ્રેણિના સ્વીકાર પહેલાં જે ચાર (૪) સંજવલન ક્રોધ-માન-માયા-લોભરૂપ કષાયો હતાં, તેમાંથી શ્રેણિદ્વારા સંજ્વલન ક્રોધ વગેરે ઉપશાન્ત કે ક્ષીણ થયે છતે ક્રમથી ક્રોધને છોડી ત્રણ (૩), ક્રોધ અને भानने छोडी ले (२), अथवा ओघ-मान-भायाने छोडी मे (ोमषाय) डोय छे...
૦ પરિહારવિશુદ્ધિક સંયત તો સંજ્વલન ક્રોધ-માન-માયા-લોભરૂપ ચાર કષાયોવાળા જ છે, પરંતુ તેને १५॥ (3), (२) : (१) पायो होता नथी, उ4 3- 'ते परिक्षा२विशुद्धिभi G५शम 3 १५:३५ શ્રેણિની પ્રાપ્તિનો અભાવ છે, કેમ કે-તે પ્રકારનો જ સ્વભાવ છે.
૦ યથાખ્યાત સંયત તો અકષાયી એટલે ઉપશાન્ત કષાયવાળો કે ક્ષીણકષાયવાળો હોય છે. लेश्याद्वारमभिधत्ते -
लेश्याद्वारे-सामायिकछेदोपस्थापनीयौ षड्विधलेश्यावन्तौ । परिहारविशुद्धिकः शुभलेश्यात्रयवान् । सूक्ष्मसम्परायश्शुक्लमात्रलेश्यावान् । यथाख्यातस्तु परमशुक्ललेश्यावान्, चतुर्दशगुणस्थाने तु लेश्यारहित इति । ७३ । __लेश्याद्वार इति । कृष्णादिद्रव्यसाचिव्यप्रयुक्तजीवपरिणामविशेषो लेश्या । योगनिमित्तेयं, तेन सहान्वयव्यतिरेकानुविधानात् । तत्रापि योगघटकद्रव्यरूपा, न तु योगनिमित्तकर्मद्रव्यरूपा, योगनिमित्तकर्मणो घात्यघात्यन्यतरात्मकत्वात्, तत्र च घातिस्वरूपत्वे यथाख्याते सयोगिनि परमशुक्ललेश्याया असत्त्वप्रसङ्गः, अघातिस्वरूपत्वे तु चतुर्दशगुणस्थानस्थे यथाख्याते लेश्यायाः सत्त्वप्रसङ्गश्च स्यात् । अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभावाद्योगपरिणाम एव लेश्या, योगघटकत्वेन चास्याः कषायाणामुदयोपबृहकत्वमनुभागहेतुत्वञ्च, इयं भावलेश्या, द्रव्यलेश्या तु कृष्णादिद्रव्यात्मिका, सा च कृष्णनीलकापोततेज:पद्मशुक्लभेदात् षोढा । कृष्णद्रव्यसम्बन्धप्रयुक्ताविशुद्धपरिणाम: कृष्णलेश्या, एवं नीलनीललोहितलोहितपीतशुक्लद्रव्यप्रयुक्तत्वं नीलादिलेश्यानां भाव्यम् । कृष्णनीलकापोताअशुभाश्शेषाश्शुभाः । षड्विधलेश्यावन्ताविति, सकषायमेवाश्रित्येदम् । शुभलेश्यात्रयवानिति, तेज:पद्मशुक्ललेश्यावानिति भावः । भावलेश्यापेक्षया प्रशस्ता एते । परमशुक्ललेश्यावानिति, अतिविशुद्धपरिणामत्वात् शुक्लध्यानस्य तृतीयो भेदस्तत्रोपयोगिनी, परमशुक्ललेश्येत्युच्यते, एकादशद्वादशगुणस्थानस्थयोः केवलं शुक्ला । चतुर्दशे तु नास्ति लेश्येत्याह-चतुर्दशेति । योगाभावादिति भावः ।
१. पूर्वप्रतिपन्नस्तु सर्वास्वपि कथञ्चिद्भवति, तत्रापि नात्यन्तसंक्लिष्टासु वर्त्तते, तथा भूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम्, तत्र प्रवृत्तिस्तु कर्मवशादिति ॥