________________
५१३
सूत्र - ६९, सप्तमः किरणः ૦ પોતાનાથી વિજાતીય સંયતની અપેક્ષાએ પણ આ પ્રમાણે જ હીન-અધિકપણું હોય છે.
'त्यमेव' अर्थात् हीन-समान-अघि ५९ लोय छ; अने हीन-पि.७५म पट(७) स्थान પતિતપણું સમજવું.
૦ વિજાતીય જે સંયત છે, તેની અપેક્ષાએ જે સામાયિકમાં વિશેષ છે તેને અનુલક્ષીને કહે છે કેસૂક્ષ્મસંપાયિક, યથાખ્યાતની અપેક્ષાએ તો અનંતગુણે હીન ચારિત્રપર્યાયવાળો સામાયિક સંયત હોય છે.
छेदोपस्थापनीय आद्यत्रयचारित्र्यपेक्षया सामायिकवत्स्यात् । अन्त्यद्वयापेक्षयाऽपि तथैव । एवमेव परिहारविशुद्धिकोऽपि । सूक्ष्मसम्पराय आद्यत्यापेक्षयानन्तगुणाधिक एव । सूक्ष्मसम्परायान्तरापेक्षया तुल्योऽनन्तगुणेन हीनोऽधिकोऽपि स्यात् । यथाख्यातापेक्षयाऽनन्तगुणहीनः । यथाख्यातस्तु विजातीयसंयतापेक्षयाऽनन्तगुणेनाधिक एव, सजातीयापेक्षया तु तुल्य एवेति । ६९ । ___ आद्यत्रयचारित्र्यपेक्षयेति-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकरूपसजातीयविजातीयसंयतापेक्षयेत्यर्थः । सामायिकवदिति, हीनाधिकसमत्वानि भवेयुहीनाधिकत्वे तु षट्स्थानपतितत्वञ्च भवेदिति भावः । अन्त्यद्वयापेक्षयापि तथैवेति, सूक्ष्मसम्पराययथाख्यातरूपविजातीयसंयतापेक्षयाऽनन्तगुणहीनचारित्रपर्यायवानित्यर्थः । परिहारविशुद्धिकोऽपि सामायिकतुल्य एवेत्याह एवमेवेति । अनन्तगुणाधिक एवेति । सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकानां तथाविधविशुद्धपर्यायाभावेनाऽयमनन्तगुणाधिक एव, न हीनो न वा समान इति भावः । सजातीयसंयतान्तरापेक्षया तु हीनाधिकतुल्यतास्स्युरेवेत्याह-सूक्ष्मेति । यथाख्यातापेक्षया तु कथमित्यत्राह-यथाख्यातेति । अनन्तगुणहीन इति, अनन्तगुणेन हीन एवेत्यर्थः समत्वे वाऽयमपि यथाख्यात एव स्यादिति भावः । यथाख्यातोऽपि विजातीयचारित्र्यपेक्षयाऽधिक एवान्यथा स्वरूपहान्यापत्तेः, सजातीयान्तरापेक्षया तुल्य एव, परस्परं तारतम्याभावादित्याशयेनाह यथाख्यातस्त्विति । अल्पबहुत्वचिन्तायान्तु सामायिकछेदोपस्थापनीययोर्जघन्याश्चारित्रपर्यायाः परस्परं तुल्यास्सर्वेभ्यस्स्तोकाश्च । परिहारविशुद्धिकसंयतस्य जघन्याश्चारित्रपर्याया अनन्तगुणास्तस्यैवोत्कर्षकाश्चारित्रपर्याया अनन्तगुणाः, सामायिकछेदोपस्थापनीययोश्चैतयोरुत्कर्षकाश्चारित्रपर्याया द्वयोरपि तुल्याः परिहारतस्त्वनन्तगुणाः, सूक्ष्मसम्परायस्य जघन्यकाश्चारित्रपर्याया अनन्तगुणास्तस्यैव चोत्कर्षकाश्चारित्रपर्याया अनन्तगुणाः, यथाख्यातसंयतस्याजघन्योत्कृष्टकाश्चारित्रपर्याया अनन्तगुणा इति ॥