________________
४९४
तत्त्वन्यायविभाकरे
शरीरद्वारमाह
शरीरद्वारे सामायिकच्छेदोपस्थापनीययोरौदारिकतैजसकार्मणानि, औदारिक तैजसकार्मणवैक्रियाणि, औदारिकवैक्रियाऽऽहारकतैजसकार्मणानि वा शरीराणि भवन्ति । शेषाणान्त्वौदारिकतैजसकार्मणानीति । ५८।
शरीरद्वार इति । कार्मणवैक्रियाणीति । पूर्वापेक्षयाऽत्र वैक्रियस्यैवाधिक्यप्रदर्शनाय क्रमोल्लंघनम् । शेषाणामिति, परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातानामित्यर्थः । त्रीण्येव शरीराणि भवन्तीति भावः ॥
(११) शरीरद्वारભાવાર્થ - સામાયિક સંયતમાં અને છેદોપસ્થાપનીય સંયતમાં ઔદારિક-તૈજસ-કામરૂપ શરીરો છે, ५९॥ मौहरि:-तैस-ए-वैठिय३५ शरीरो होय छ, अथवा मौरि:-वैठिय-माहा:-तैसકાર્પણરૂપ શરીરો હોય છે. બાકીના સંયતોને ઔદારિક-તૈજસકાર્પણરૂપ શરીરો હોય છે.
“ઔદારિક-તૈજસ-કાશ્મણ-વૈક્રિયાણિ.” અહીં આ વાક્યમાં પૂર્વની અપેક્ષાએ વૈક્રિયની અધિકતા બતાવવા માટે ક્રમનું ઉલ્લંઘન છે.
શેષ એટલે પરિહારવિશુદ્ધિક-સૂક્ષ્મસંપરાય અને યથાખ્યાત સંયતોને, એવો અર્થ સમજવો. અર્થાત ૫૦ સં., સૂઠ સંઅને ય- સંત ને ઔદારિક-તૈજસ-કાશ્મણરૂપ ત્રણ જ શરીરો હોય છે, એવો ભાવ સમજવો.
क्षेत्रद्वारमाह
क्षेत्रद्वारे-जन्मसद्भावावाश्रित्य सामायिकच्छेदोपस्थापनीयसूक्ष्मसम्पराययथाख्याताः कर्म भूम्यां संहरणापेक्षया त्वकर्मभूमौ भवेयुः । परिहारविशुद्धिकस्तु कर्मभूमावेव भवेत् । नास्य संहरणं भवेदिति । ५९ ।
क्षेत्रद्वार इति । जन्मसद्भावाविति । जन्म-उत्पत्तिः, सद्भावो विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वम् । कर्मभूम्यामिति । अकर्मभूमौ जन्मतो न भवन्ति, तत्र जातानां चारित्राभावात्, अत्रैवैते चत्वारः स्वयं विहरन्ति, परकृतविहारापेक्षया तु कर्म भूमावकर्मभूमौ वेत्यपि बोध्यम्, पञ्चभरतपञ्चमहाविदेहपञ्चैरावतानि कर्मभूमयः । हैमवतहरिवर्षदेवकुरूत्तरकुरुरम्यकैरण्यवतानि पञ्चभिर्गुणितानि षड्कर्मभूमय इति । संहरणापेक्षयेति, संहरणं नाम क्षेत्रान्तरात्क्षेत्रान्तरे देवादिभिर्नयनम् । अकर्मभूमाविति, कर्मभूमावपीति बोध्यम् । कर्मभूमावेवेति, तत्रैव जायते विहरति चेति भावः । नास्येति, एतल्लब्धिमतो देवादिभिस्संहर्तुमशक्यत्वादिति भावः ।।