________________
सूत्र - ४४, सप्तमः किरणः
४७९
परिहारविशुद्धिकमाख्याति
तपोविशेषविशिष्टं परिशुद्धिमच्चारित्रं परिहारविशुद्धिकम् । तदपि निर्विशमानकं निविष्टकायिकञ्चेति द्विविधम् । निर्विशमानकाः प्रक्रान्तचारित्रोपभोक्तारः, निर्विष्ट कायिकाश्च समुपभुक्तप्रक्रान्तचारित्रकायिकाः । एते चाऽऽद्यान्तिमतीर्थकरतीर्थकाल एव । ४४।
तपोविशेषेति । परिहरणं परिहारः प्राणिवधान्निवृत्तिस्तपोविशेषो वा तेन विशिष्टा शुद्धिर्यस्मिन् तत्परिहारविशुद्धिकमिति विग्रहः । अस्य भेदमाह तदपीति परिहारविशुद्धिकमपीत्यर्थः, निर्विशमानकं परिभुज्यमानकमित्यर्थः । निर्विष्टकायिकमुपभुक्तमित्यर्थस्तपोविशेषोपभोगकालीनञ्चारित्रमुपभुक्ततपोविशेषकालीनञ्चारित्रं चेति तद्विविधमिति भावः । तपोविशेषं सूचयितुं निरुक्तरूपेण तयोः स्वरूपमनुक्त्वा तदनुष्ठायिपुरुषस्वरूपनिरूपणद्वारा निरुक्तमपि सूचयति-निर्विशमानकाश्चेति । प्रक्रान्तेति तपोविशेषसहकृतेत्यर्थः, एवमग्रेऽपि । अत्रेदम्बोध्यम्-उभयविधानामेषां तपो जघन्यमध्यमोत्कृष्टभेदेन त्रिविधमपि प्रत्येकं शीतकाल उष्णकाले वर्षाकाले च भवति तत्राऽतिरूक्षे ग्रीष्मकाल एकोपवासरूपं चतुर्थं जघन्यं, उपवासद्वयरूपं षष्ठं मध्यममुत्तमञ्चोपवासत्रयरूपमष्टमम् । ग्रीष्मतः किञ्चित्सुकरे शिशिरे जघन्यं षष्ठं मध्यममष्टममुत्कृष्टञ्चोपवासचतुष्टयरूपं दशमम् । साधारणे काले वर्षासु जघन्यमष्टमं मध्यम दशममुत्कृष्टञ्चोपवासपञ्चकरूपं द्वादशं तपो भवति, त्रिष्वपि कालेषु पारणे त्वाचाम्लं, संसृष्टादिसप्तभिक्षासु प्रथमद्वयं वर्जयित्वा पञ्चानां भिक्षाणां ग्रहः पुनरपि विवक्षितदिने पञ्चानां मध्ये द्वयोरभिग्रहो भवति । तत्र तपोविशेषमुपगतानां नवानां गणो भवति, तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणश्चत्वारः कल्पस्थित एको वाचनाचार्य इति । सर्वेषां श्रुताद्यतिशयपरिपूर्णत्वेऽपि तेष्वेकः कल्पत्वात्कल्पस्थितोऽवस्थाप्यते । पूर्वोदितं तपो येऽनुतिष्ठन्ति ते परिहाराचारिणः, पूर्वोक्तभिक्षाभिग्रहयुक्ता नियताचाम्लभक्ता अनुपरिहारिणस्तेषामेव वैयावृत्त्यकराः, कल्पस्थितोऽपि नियताचाम्लभक्त एव । परिहाराचारिणश्च यावत् षण्मासांस्तपश्चरित्वाऽनुपरिहारिकत्वं, अनुपरिहारिणो निर्विशमानकत्वापरपर्यायं परिहाराचारित्वञ्च यावत् षण्मासं भजन्ते । मासद्वादशकानन्तरं वाचनाचार्योऽप्येवं षाण्मासिकं परिहारतपः करोति तदाऽष्टसु सप्तानुपहारिका एकः कल्पस्थितो भवति, एवमयं कल्पोऽष्टादशमासप्रमाणो विज्ञेयः । ततश्च ते पुनरमुमेव कल्पं जिनकल्पं गच्छं वाऽनुसरन्ति । तत्र येऽव्यवधानेन जिनकल्पानुसारिणस्ते यावत्कथिकाः परिहारविशुद्धिका इतरे त्वित्वराः, इत्वराणां देवमानुषतिर्यग्यो