________________
सूत्र - ४०-४१, सप्तम: किरण:
४७३
अथ चारित्रलक्षणमभिधत्ते
कर्माष्टकशून्यताप्रयोजकमनुष्ठानं चारित्रम् । तच्च सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातभेदेन पञ्चविधम् । ४१ ।
-
कर्माष्टकेति । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते तदिति चारित्रं कर्मसाधनं, अष्टविधकर्म द्रव्यक्षेत्रकालभवभावपरिवर्त्तनात्मकसंसारस्य कारणभूतं, तस्य या शून्यताऽऽत्यन्तिकी निवृत्तिः, तस्याः प्रयोजकं यदनुष्ठानं, बाह्याभ्यन्तरक्रियाविशेषोपरमसहचरितमनुष्ठानं परस्परं प्रकर्षाप्रकर्षयोगिक्रियाविशेषरूपं तच्चारित्रमिति भावार्थः, तच्च संयतासंयतादिषु सूक्ष्मसाम्परायिकान्तेषु प्रकर्षाप्रकर्षयोगि, वीतरागेषु परमोत्कृष्टं विज्ञेयम् । कर्माष्टकशून्यताप्रयोजकत्वे सत्यनुष्ठानत्वं लक्षणम् । गुप्त्यादयश्चारित्रप्रकर्षानुकूलाः, अत एव च कर्माष्टकशून्यत्व उपचाराद्धेतवः । यद्यपि समित्यादयः क्रियात्मकाः कर्मशून्यतायां प्रयोजकास्तथापि ते चारित्रापेक्षिणः किञ्चिदेव कर्म विरहयन्ति न सर्वाणि चारित्रं तु कर्मणामष्टविधानामपि विरहे प्रयोजकीभूतयोग्यतावदिति न कोऽपि दोषः । ननु यैः क्षुधादिभिः परिसहनीयैरक्षुब्धा विपश्चितोऽभिनवानि कर्माणि नोपचिन्वन्ति पूर्वप्रचितानि च निर्जरयन्ति ततः कर्मनिर्जरणार्थमाहितसामर्थ्यं चारित्रं चारित्रमोहनीयोपशमक्षयक्षयोपशमलक्षणात्मक विशुद्धलब्धिसामान्यापेक्षयैकं, प्राणिपीडापरिहारेन्द्रियदर्पनिग्रहशक्तिभेदाद् द्विविधं, उत्कृष्टमध्यमजघन्यविशुद्धियोगात्त्रिविधं विकलज्ञानविषयकसरागवीतरागसकलावबोधगोचरसयोगायोगविकल्पाच्चतुर्विधमेवं सामायिकादिभेदेन पञ्चविधमपि तत्र स्फुटावबोधार्थं पञ्चधैव विभजते तच्चेति ॥
હવે ચારિત્રનું લક્ષણ કહે છે
भावार्थ - - आठ र्मोनी शून्यतानुं प्रयो४९ अनुष्ठान, से 'थारित्र' 'हेवाय छे. ते यारित्र सामयि5છેદોપસ્થાપન-પરિહારવિશુદ્ધિ-સૂક્ષ્મસંપરાય અને યથાખ્યાતના ભેદથી પાંચ પ્રકારનું છે.
વિવેચન – ચારિત્રમોહનીય કર્મનો ઉપશમ, ક્ષય કે ક્ષયોપશમ થવાથી જે ચરાય-કરાય, ते 'थारित्र'એમ કર્મસાધન રૂપ વ્યુત્પત્તિ દ્વારા અર્થ નીકળે છે. વ્યુત્પત્તિ અર્થ, રૂઢ અર્થ પ્રમાણે આઠ પ્રકારનું કર્મ, કે જે દ્રવ્ય-ક્ષેત્ર-કાળ-ભવ-ભાવના પરિવર્તનરૂપે સંસારનું કારણભૂત છે, તે આઠ પ્રકારના કર્મની જે શૂન્યતા એટલે આત્યંતિક નિવૃત્તિ (સર્વથા અભાવ), તેનું પ્રયોજક જે અનુષ્ઠાન, બાહ્ય-અત્યંતર વિશિષ્ટ ક્રિયાની વિરતિ સહચરિત (સહિત) અનુષ્ઠાન, અર્થાત્ પરસ્પર પ્રકર્ષ-અપકર્ષ યોગવાળી વિશિષ્ટ ક્રિયારૂપ, તે 'शारित्र.' 'हेवाय छे, जेवो भावार्थ छे.