________________
४६५
सूत्र - ३७, सप्तम: किरणः
स्वधर्मेति । स्वधर्मार्थं देहस्य पालनाय, न तु पुष्ट्यर्थं, परेण लभ्यान्नपानवस्त्रपात्रप्रतिश्रयादेश्चक्रवर्त्तिनापि सता साधुनाऽवश्यमेव याचनं कार्यं नतु दीक्षितः श्रीमानपि लज्जया - ऽयाचनतामाद्रियेत, तथा च सति याचनाविजयः कृतस्स्यादिति भावः । स्वधर्मदेहपालनप्रयुक्तसाधुकर्त्तृकयाचनालज्जापरिहारत्वं___ लक्षणम् I रङ्कादिकृतलज्जापरिहारपरिहाराय कर्त्तृकान्तम् । देहपुष्ट्यभिलाषेण साधुकृतयाचनालज्जापरिहारवारणाय स्वधर्मदेहपालनप्रयुक्तेति । चारित्रमोहोदय एव याचनालज्जासंभवेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोपशमजन्यस्तज्जय इत्यभिप्रायेणाह - चारित्रेति ॥ अलाभपरीषहमाचष्टे याचितेऽपीति । वस्तुन्यावश्यके याचितेऽपि परेणाऽदत्तेऽन्नवस्त्रादिके परगृहे बह्वस्ति, तद्यस्य तु स्वं स तत्कदाचिद्ददाति, कदाचिच्च न, कस्तत्रास्माकमपरितोषो यन्न यच्छतीत्यादिरूपेण विचारयन् यद्यविकृतान्तरङ्गो भवेत् तदाऽलाभपरीषहस्स्यादिति भावः । याचितवस्त्वलाभप्रयुक्त विषादानवलम्बनत्वं लक्षणम् । इतरपरीषहवारणाय प्रयुक्तान्तम्, तावन्मात्रोक्तौ तु विषादालम्बनेऽतिव्याप्तिस्यादतो विषादानवलम्बनत्वमुक्तम् । अलाभस्य लाभान्तरायोदयनिबन्धनत्वाद्यावद्द्वादशगुणस्थानं सम्भवेन तत्क्षयोपशमादस्य परीषहस्यावतार इत्याह लाभान्तरायेति । रोगपरीषहमाचष्टे - रोगोद्भव इति । ज्वरातिसारकासश्वासादिमहद्रोगोद्भवेऽपि गच्छनिर्गता जिनकल्पिकादयश्च न चिकित्साविधापने प्रवर्त्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकृतकर्मणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक्सहन्ते, प्रवचनोक्तेन वा विधिना चिकित्सामपि कारयन्ति, एवञ्च रोगजयः स्यादिति भाव: । यथाशास्त्रानुष्ठानमुद्भूतरोगसहनत्वन्तु लक्षणम् । सर्वथा चिकित्सावैधुर्यमेव कार्यमिति नियमाभावसूचकं यथाशास्त्रानुष्ठानमिति पदम्, तच्च सम्यक्पदेन लभ्यते । वेदनीयोदयप्रयुक्तत्वेन रोगस्याखिलगुणस्थानेषु सम्भवोऽवसेयः ॥
યાચના આદિ પરીષહને કહે છે
ભાવાર્થ – સ્વધર્મને ખાતર દેહના પાલન માટે ચક્રવર્તી પણ સાધુને યાચનાની લજ્જાનો પરિહાર, એ‘યાચનાપરીષહ.' આ પરીષહ ચારિત્રમોહનીયના ઉદયથી પેદા થાય છે અને ચારિત્રમોહનીયના ક્ષયોપશમથી જીતાય છે. માંગેલી છતાં વસ્તુની અપ્રાપ્તિમાં ખેદના આલંબનનો અભાવ, એ ‘અલાભપરીષહ.' આ પરીષહ લાભાન્તરાયકર્મના ઉદયથી પેદા થાય છે અને લાભાન્તરાયકર્મના ક્ષયોપશમથી જીતાય છે. રોગની ઉત્પત્તિ થયે છતે સારી રીતે સહન કરવું, એ ‘રોગપરીષહ.
વિવેચન - યાચનાપરીષહ પોતાના ધર્મને ખાતર દેહના પાલન માટે, પુષ્ટિના માટે નહિ. બીજાની पासेथी भेजववा योग्य अन्न-पान-वस्त्र- पात्र - उपाश्रयनी, यवर्ती भे साधु जने, तो तेसो भए अवश्य માગણી કરવી જોઈએ. શ્રીમાન્ પણ દીક્ષિતે (સાધુએ) લજ્જાથી આ યાચનાનો અનાદર ન કરવો જોઈએ. તે પ્રકારે કરવાથી યાચનાનો વિજય કરેલો થાય, એમ ભાવ જાણવો.