________________
४६२
तत्त्वन्यायविभाकरे स्वाध्यायभूमिः, सैव परीषहो नैषेधिकीपरीषह इति व्याख्यायन्ति । अस्या निषद्याया यावन्नवमगुणस्थानं सम्भवः, अतश्चारित्रमोहनीयस्य क्षयोपशमतो जायतेऽयं परीषह इत्याहचारित्रेति ॥ शय्यापरीषहं निरूपयति-प्रतिकूलेति । संस्तारकपट्टकादीनां कठिनत्वादिप्रातिकूल्याद्वसतेश्च पांसूत्करादिप्रचुरत्वाद्वा पूर्वानुभूतनवनीतसंनिभमृदुशयनरतिमननुस्मरतोऽत्रानुद्विग्नमनस्कता शय्यापरीषह इत्यर्थः । प्रतिकूलसंस्तारकवसतिसेवनजन्योद्वेगराहित्यं लक्षणम् । जन्यान्तं निषद्यापरीषहव्यावृत्तये । निषद्यापरीषहस्तूपसर्गजन्योद्वेगराहित्यरूपोऽयञ्चोच्चावचपांसूत्करप्राचुर्यजन्योद्वेगराहित्यरूप इत्यनयोर्वैषम्यमवसेयम् । वेदनीयोदयप्रयुक्तत्वाच्छय्याया निखिलेषु गुणस्थानेषु सम्भवस्समभावावलम्बनेन चारित्रमोहनीयक्षयोपशमतश्च तज्जयो जायत इत्याशयेनाह-अयञ्चेति शय्यापरीषहश्चेत्यर्थः ॥ आक्रोशपरीषहं स्वरूपयति-निर्मूलमिति । आक्रोशनमनिष्टवचनमाक्रोशस्तस्य परीषहः परितस्सहनमाक्रोशपरीषहः । स्वस्मिन्निर्मूलं समूलं वा जनेषु कुप्यत्सु, कुप्यन्ति चेत्समूलं शिक्षयन्ति हि मामेते, नैव च मया कार्यमेवं पुनरिति, निर्मूलञ्चेत्तर्हि सुतरां कोप एव न मया कार्योऽसत्यत्वादिति चानुचिन्तनया सौम्यताऽवलम्ब्यते चेत्तदा तस्याऽऽक्रोशजयो जायत इति भावः । हेतुसत्त्वाऽसत्त्वाभ्यां कुप्यज्जनविषयकसमतापरिग्रहत्वं लक्षणम् । आक्रोशस्य चारित्रमोहनीयोदयप्रयुक्तत्वेन नवमगुणस्थानं यावत्सम्भवेन तज्जयस्तत्क्षयोपशमजन्य इत्याशयेनाह-चारित्रेति । वधपरीषहं लक्षयति-परप्रयुक्तेति । दुरात्मकैः परैश्चौरम्लेच्छशबरपरुषपूर्वापकारिद्विषल्लिङ्गान्तरैः पाणिपाणिलत्ताकशादिभिः कृतानां प्रद्वेषतस्ताडनतर्जनबन्धनाकर्षणादीनां दह्यमानेनाऽपि सुगन्धमेवोत्सृजता चन्दनेनेव पौद्गलिकमनित्यमिदं शरीरमात्मनोऽन्यदेव, आत्मा पुनर्नित्यतया न शक्यत एव ध्वंसयितुं, अतस्स्वकृतफलमुपनतमिदं ममेति विभावयतः सम्यक्सहनं वधपरीषह इति भावः । परप्रयुक्तताडनतर्जनादिसहनत्वं लक्षणम् । वधस्य वेदनीयोदयप्रयुक्तत्वेनाखिलगुणस्थानेषु सम्भवात् चारित्रमोहनीयक्षयोपशमजन्यत्वं तज्जयस्येत्याशयमाविष्करोति वेदनीयेति ॥
ચર્યા આદિ પરીષહોને કહે છેભાવાર્થ – એક સ્થાનમાં નિવાસના મમત્વના પરિહારપૂર્વક, નિયમ સહિત ગ્રામનગર આદિમાં ભ્રમણથી જન્ય ફ્લેશ આદિનું સહન કરવું, એ “ચર્યાપરીષહ.”
આ વેદનીયજન્ય (વિષયરૂપ પરીષહ છે) જયરૂપ પરીષહ ચારિત્રમોહનીયના ક્ષયોપશથી થાય છે.
સ્ત્રી-પશુ-નપુંસકથી વર્જિત સ્થાનમાં નિવાસ કરવાથી અનુકૂળ-પ્રતિકૂળ ઉપસર્ગોનો સંભવ છતાં પણ મનની નિશ્ચળતા, એ “નિષઘાપરીષહ.” આ ચારિત્રમોહનીયથી પેદા થાય છે અને એનો જય