________________
सूत्र - ३६, सप्तमः किरणः
४६१
નથી, કેમ કે-મોહનીયનો ક્ષય કે ઉપશમ છે તેથી આ પરીષહ (જયરૂપ પરીષહ) ચારિત્રમોહનીય (નો ઉદય) છતે ચારિત્રમોહનીયના ક્ષયોપશમજન્ય છે. આવા અભિપ્રાયથી કહે છે કે-અવસ્ત્ર-અરતિ-સ્રીપરીષહોવિષયરૂપ પરીષહો ચારિત્રમોહનીયના ઉદયે થાય છે અને જયરૂપ પરીષહો ચારિત્રમોહનીયના ક્ષયોપશમથી થાય છે. ચારિત્રમોહનીય ક્ષયોપશમજન્ય એટલે ક્રમસ૨ જુગુપ્સામોહનીયના-અતિ-મોહનીયનાકુંવેદમોહનીયના ક્ષયોપશમથી જયરૂપ આ પરીષહો થાય છે, એમ જાણવું.
चर्यापरीषहमाह
एकत्र निवासममत्वपरिहारेण सनियमं ग्रामादिभ्रमणजन्यक्लेशादिसहनं चर्या - रीषहः । वेदनीयक्षयोपशमजन्योऽयम् । स्त्रीपशुपण्डकवर्जिते स्थाने निवासादनुकूलप्रतिकूलोपसर्गसम्भवेऽप्यविचलितमनस्कत्वं निषद्यापरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । प्रतिकूलसंस्तारकवसतिसेवनेऽनुद्विग्नमनस्कत्वं शय्यापरीषहः । अयञ्च वेदनीयक्षयोपशमजन्यः । निर्मूलं समूलं वा स्वस्मिन् कुप्यत्सु जनेषु समतावलम्बनमाक्रोशपरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । परप्रयुक्तताडनतर्जनादीनां कायविनश्वरत्वविभावनया सहनं वधपरीषहः । वेदनीयक्षयोपशमजन्योऽयम् । ३६ ।
एकत्रेति । निस्संगतामपगतस्य संयतस्य क्लेशक्षमस्य देशकालप्रमाणोपेतमध्वगमनमनुभवतो यानवाहनादिगमनमस्मरतस्सम्यग्व्रज्यादोषमुज्झतश्चर्यापरीषहो भवति, चर्या चरणं द्विविधं द्रव्यतो भावतश्च, ग्रामानुग्रामविहरणं द्रव्यतश्चर्या, एकस्थानस्थस्याऽपि तत्र निर्ममत्वं भावतश्चर्या सैव परीषहः, एतदुभयप्रदर्शनायैकत्रनिवासममत्वपरिहारेणेत्युक्तम् । सनियममिति । एकरात्रं ग्रामे पञ्चरात्रं नगरेऽवस्थातव्यमित्यादिनियमपूर्वकमित्यर्थः । सर्वेषु गुणस्थानेषु ग्रामादिभ्रमणजन्यक्लेशादिसम्भवो वेदनीयोदयादतश्चर्यापरीषहस्य वेदनीये सति चारित्रमोहनीयक्षयोपशमजन्यत्वमित्याशयमाविष्करोति वेदनीयेति ॥ निषद्यापरीषहं वक्तिस्त्रीति । निषीदन्त्यस्यामिति निषद्या स्थानं, स्त्रीपशुपण्डकविवर्जितम्, विदितसंयमतत्त्वस्य स्त्रीपश्वादिवर्जितस्थानवासिनोऽनुकूलप्रतिकूलोपसर्गसम्भवेऽपि तत्प्रदेशादविचलतो विद्यादिप्रतीकाराननपेक्षमाणस्य प्रागनुभूतसुखास्तरणादिस्पर्शसुखमविगणयतोऽविचलितमनस्कत्वं निषद्यपरीषह इति भावः । नैषेधिकीति केचिदत्र पठन्ति, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च प्रतिषेधः, स प्रयोजनं यस्यास्सा नैषेधिकी शून्यागारश्मशानादिका
मन्त्र
१. चर्या हि ग्रामादिषु सञ्चरणमतो विहाररूपा, निषद्या तु ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्तोपाश्रये गत्वा निषदनमिति अवस्थानरूपमित्यनयोर्विरोधः, चर्यायां वर्त्तमानो यदाऽनिवृत्ततत्परिणाम एवं विश्रामभोजनाद्यर्थमित्वरकालं शय्याया आसेव्यमानत्वात् न तया शय्याया विरोध इति बोध्यम् ॥