________________
४५४
तत्त्वन्यायविभाकरे परीषहभेदश्च सम्बन्धितया कतिविध इत्याशङ्कायां तं विभजते
स च क्षुत्पिपासाशीतोष्णदंशावस्त्रारतिवनिताचर्यानषेधिकशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वरूपेण द्वाविंशतिविधः । सत्यामप्यतिशयितक्षुद्वेदनायां सविधिभक्ताद्यलाभेऽपि क्षुधोपसहनं क्षुत्परीषहः । सत्यां पिपासायामदुष्टजलाद्यभावेऽपि तृट्परिषहणं पिपासापरीषहः । प्रचुरशीतबाधायामप्यत्यल्पैरेव वस्त्रादिभिश्शीतोपसहनं शीतपरीषहः । प्रभूतोष्णसन्तापेऽपि जलावगाहनाद्यनासेवनमुष्णपरीषहः । ३४ । ___ स चेति । परीषहश्चेत्यर्थः, द्वाविंशतिविध इत्यनेन सम्बन्धः । ननु सहनस्वरूपस्य परीषहस्याविशेषेण कथं द्वाविंशतिविधत्वमित्यत्राह-क्षुदिति । तथा च परिसोढव्यानां क्षुधादीनां द्वाविंशतिविधत्वेन तत्साध्यसहनस्याऽपि द्वाविंशतिविधत्वमिति भावः । सम्यक्त्वरूपेणेति, साध्यत्वादिति शेषः । न च परिषह्यन्त इति कर्मव्युत्पत्त्या व्युत्पन्नेन बाहुलकघप्रत्ययान्तेन परीषहशब्देन क्षुधादय एव वाच्या इति वाच्यम् । क्षुधादीनां संवर रूपत्वाभावात् । तज्जयस्यैव तथात्वात् संवररूपस्यैव परीषहस्य वाच्यत्वात् । अत एव सर्वत्र मूले जयपरत्वेनैव परीषहा लक्षिता इति । अथातिदुस्सहत्वात्क्षुद्वेदनायास्तत्सहनरूपक्षुत्परीषहमेवादौ लक्षयतिसत्यामपीति । अनशनाध्वरोगतपस्स्वाध्यायश्रमवेलातिक्रमावमौदर्यासद्वेद्योदयादिभ्यो जठरविदाहिन्यां शरीरेन्द्रियहृदयसंक्षोभिकायां क्षुद्वेदनायां समुदितायां तस्याः सहनं क्षुत्परीषह इति भावः । क्रोधादिजन्यक्षुधुपसहनस्य परीषहत्ववारणाय सविधिभक्ताद्यलाभेऽपीति, एतेनास्य विशेषणस्यातिशयताद्योतकत्वेन साम्यताया लाभात् साम्यताप्रयुक्तक्षुधोपसहनत्वस्यैव लक्षणार्थत्वेन क्रोधादिजन्यक्षुधोपसहने क्रोधप्रयुक्तत्वस्यैव सत्त्वान्नातिव्याप्तिरेवमग्रलक्षणेष्वपि भाव्यम्, शास्त्रप्रतिपादितेन भक्तेन तां शमयतोऽनेषणीयञ्च समुत्सृजतः क्षुत्परीषहः, लक्षणन्तु सविधिभक्ताद्यलाभेऽपि क्षुधोपसहनत्वमेवेति ध्येयम् । क्षुधायाश्चतुर्दशस्वपि गुणस्थानेषु सम्भवस्तत्कारणस्य वेदनीयस्य सद्भावादिति ॥ बुभुक्षापीडितस्य पिपासासंभवात्तज्जयरूपं पिपासापरीषहमाह-सत्यामिति । स्नानावगाहपरिषेकत्यागिनोऽतिलवणस्निग्धरूक्षविरुद्धाहाराऽऽतपानशनपित्तज्वरादिभिरुदितां शरीरेन्द्रियशोषिकां पिपासां क्षुद्भिन्नसामर्थ्यवतीं प्रत्यनाद्रियमाणस्य, निदाघेऽपि विहारादिषु हृदेष्वासन्नेष्वप्यप्कायिकजीवपरिज्ञानेन जलमनादधानस्य, भिक्षाकालेऽप्यनेषणीयजलाधनभिलाषुकस्य पिपासासहनं जायत इति भावः । अदुष्टजलाद्य-भावेऽपि तृट्परीषहणत्वं लक्षणं, कृत्यमूह्यम् । पिपासेयं सर्वेष्वपि