________________
सूत्र - ३१, सप्तमः किरणः
४४३
समितिरित्यर्थः । पञ्चानामीर्यादीनां तान्त्रिकी संज्ञाऽन्वर्था विज्ञेयेति भावः ॥ अथेर्यासमिति स्वरूपयति-स्वपरेति । स्वस्य परस्य वा यथा बाधा न भवेत् तथा पुरतो युगमात्रं प्रेक्षमाणो बीजहरितादिप्रदेशान् परिहरन् यद्गमनं करोति यया च रत्नत्रयं सुरक्षितं भवेत्सेर्यासमितिरित्यर्थः । स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सति रत्नत्रयफलकत्वे सति च गमनत्वं लक्षणम् । स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकगतित्वस्य सत्काराद्यभिलाषुकपुरुषकर्तृकगतौ गतत्वात्तद्वारणाय रत्नत्रयफलकत्वे सतीति । धर्मार्थं प्रयतमानस्य गमने व्यभिचारवारणाय स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सतीत्युक्तम् ॥ भाषासमितेर्लक्षणमाह-कर्कशादीति । हितं स्वस्य परस्य वा मोक्षपदप्रापणसमर्थं, मितमनर्थकबहुप्रलपनशून्यं प्रयोजनमात्रसाधनं वचनं, अनवद्यं जीवनिकायानामनुपघातकं, असंदिग्धं स्फुटार्थं व्यक्ताक्षरं वा अभिद्रोहशून्यं क्रोधमायालोभैरयुक्तं, एवंविधं कर्कशादिदोषशून्यञ्च भाषणं भाषासमितिरित्यर्थः । अहितामितावद्यसंदिग्धादिवचनवारणाय तत्तत्पदग्रहणमवसेयम् । एषणासमितिमाचष्टे-सूत्रेति । आगमानुसारेणाशनखाद्यस्वाद्यभेदभिन्नस्यान्नस्य, आरनालतण्डुलक्षालनादेरुद्दमादिदोषपरिशुद्धस्य पानस्य, रजोहरणादिचतुर्दशविधोपधीनां स्थविरकल्पयोग्यानां जिनकल्पयोग्यानां द्वादशविधानां आर्यिकायोग्यानां पञ्चविंशतिविधानामुपधीनां गवेषणैषणासमितिरित्यर्थः । सूत्रानुसारेणेत्यनेन दोषवर्जनमभिमतं, तत्राधाकर्मोद्देशिकादिषोडशगृहस्थहेतुका उद्गमदोषाः, धात्रीपिण्डदूतीपिण्डादिषोडशसाधुजन्या उत्पादनादोषाः, उभयजन्याश्च शङ्कितम्रक्षितादयो दशैषणा दोषाः, एभिर्दोषै रहिता अन्नादयः श्रुतचरणधर्मसाधकाः । तथा चोद्गमादिदोषरहितान्नादिपदार्थान्वेषणमेषणासमितेर्लक्षणम् । वनीपककर्तृकभक्ताद्येषणायां व्यभिचारनिरासायोद्गमादिदोषरहितेति ॥ आदाननिक्षेपणासमितिमाख्याति-उपधीति । उपधयश्चतुर्दशविधा द्वादशविधाः पञ्चविंशतिविधाश्च, प्रभृतिपदेन पीठफलकाद्यौपग्रहिकोपकरणानां ग्रहणं, एतेषामुपयोगाय निरीक्ष्य स्थिरतरं प्रमृज्य च रजोहरणेन ग्रहणस्थापनारूपा क्रिया आदाननिक्षेपणासमितिरित्यर्थः । निरीक्षणप्रमार्जनपूर्वकोपधिविषयग्रहणस्थापनात्मकक्रियात्वमस्या लक्षणम्, उदासीनपुरुषकृतोपधिविषयक ग्रहणस्थापनात्मकक्रियावारणाय निरीक्षणप्रमार्जनपूर्वकेति ॥ उत्सर्गसमितिस्वरूपप्रकाशनायाऽऽह-जन्तुशून्येति । स्थावरजङ्गमजन्तुशून्यायां परिशोधितभूमावुज्झितव्यवस्तुयोग्यायां विधिना निरीक्षणप्रमार्जनात्मकेन मूत्रपुरीषादीनां परित्याग उत्सर्गसमितिरित्यर्थः । आदिना वस्त्रपात्रादीनां ग्रहणम् । तथा च जीवाविराधनेन योग्यभूमौ विधिना मूत्रपुरीषादित्यजनं