________________
सूत्र - ३०, सप्तमः किरणः
૦ અહીં રહેલો જીવ એક પ્રકારનો બંધક (શાતાવેદનીય બંધક) હોય છે.
० (५) ज्ञानावरण, (4) अंतराय खने (४) हर्शनावरणीयना उध्यनो विछेह थवाथी (४२) કર્મપ્રકૃતિના ઉદયવાળો હોય છે.
४३९
० (२) निद्रा प्रयता, (4) ज्ञानावरण, (4) अंतराय जने (४) हर्शनावरण, जे १५ प्रद्धृतिनो સત્તાવિચ્છેદ થવાથી (૮૫) પ્રકૃતિની સત્તાવાળો હોય છે.
सम्प्रत्यन्तिमं चतुर्दशं गुणस्थानमाह
योगप्रतिरोधिशैलेशीकरणप्रयोजकं स्थानमयोगिगुणस्थानम् । आदिमह्रस्वपञ्चस्वरोच्चारणाधिकरणकालमात्रमानमेतत् । इति चतुर्दशगुणस्थानानि । ३० ।
-
योगेति । योगनिरोधावस्थारूपा या शैलेशी तत्करणप्रयोजकं यत्स्थानं तदयोगिगुणस्थानमित्यर्थः, लेश्याविधुरपरमप्रकर्षप्राप्तयथाख्यातचारित्रस्य शीलस्य ईशः शीलेशोऽयोगिकेवली, तस्य त्रिभागेन संकुचिताऽऽत्मदेहस्य इयं शैलेशी, मेरुश्शैलेशः तस्येव वा निष्प्रकम्पावस्था भगवतस्सा शैलेशीति वा व्युत्पत्तिः । अत्र पूर्वोक्तस्त्रिविधोऽपि योग: प्रत्येकं सूक्ष्मबादरभेदेन द्विधा, केवलोत्पत्तेरनन्तरं जघन्येनान्तर्मुहूर्त्तकालमुत्कर्षेण देशोनपूर्वकोटिं विहृत्याऽन्तर्मुहूर्त्तावशेषायुष्कस्सयोगिकेवली शैलेशीं प्रतिपित्सुः शुक्लध्यानविशेषध्यायी प्रथमं बादरकाययोगाश्रयेण स्थूलवाङ्मनोयोगयुग्मं सूक्ष्मीकरोति । ततस्सूक्ष्मवाक्चित्तयोरवष्टम्भेन बादरकाययोगं सूक्ष्मत्वं नयति । ततस्सूक्ष्मकाययोगे तिष्ठन् सूक्ष्मवाक्चित्तयोर्निग्रहं करोति, ततश्च तत्रैव तिष्ठन् सूक्ष्मक्रियमनिवृत्तिशुक्लध्यानं ध्यायन् सूक्ष्मकाययोगं स्वात्मनैव निरुणद्धि, अन्यस्यावष्टम्भभूतस्य योगान्तरस्याभावात्, तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् अ इ उ ऋ लृ इत्यादिमह्रस्वपञ्चस्वरोच्चारणाधिकरणकालमानं शैलेशीकरणमारभते, योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रस्वामिसम्बन्धिनी या त्रिभागो - नस्वदेहावगाहनायामुदरादिरन्ध्रपूरणप्रयुक्तसंकुचितस्वप्रदेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिस्साशैलेशी तस्यां करणं - पूर्वरचितशैलेशीसमयसमानगुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रितयस्यासंख्येयगुणया श्रेण्याऽऽयुः शेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तत्राऽसौ प्रविष्टोऽयोगिकेवली भवति । अत्रौदारिकद्विकास्थिरद्विकविहायोगतिद्विकप्रत्येकत्रिकसंस्थानषट्कागुरुलघुचतुष्कवर्णचतुष्कनिर्माणकर्मतैजसकार्मणद्वयप्रथम
संहननस्वरद्विकैकवेदनीयरूपत्रिंशत्प्रकृत्युदयव्यवच्छेदो बोध्यः, मुक्त्युपान्त्यसमये देहपञ्चक
१. द्रविडतैलङ्गादिभाषायां एकारौकारयोरपि हृस्तत्वात्तद्वारणायादिमेति ॥