________________
तत्त्वन्यायविभाकरे
अन्योऽन्येति । युगपदेव यत्स्थानप्रविष्टानामनेकेषामपि जीवानां परस्पराध्यवसायस्थानानि न व्यावृत्यन्ते तथा सूक्ष्मसम्परायापेक्षया यत्र स्थूलकषायोदयो भवेत् तादृशमनिवृत्तिकरणगुणस्थानमित्यर्थः । युगपदेतद्गुणस्थानं प्राप्तानामनेकेषामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य निवृत्तिर्नास्ति यत्र यदीयगुणस्थानाद्धायामान्तर्मौहूर्त्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानं भवति, यावन्तश्चाऽन्तर्मुहूर्ते समयास्तावन्त्येवाऽध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाऽधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात्, तथा सूक्ष्मकिट्टीकृतकषायोदयापेक्षया स्थूलः कषायोदयो भवति तादृशमनिवृत्तिकरणगुणस्थानमिति भावः । अस्योत्कृष्टकालमाह - अन्तरिति । जघन्यतस्त्वेकस्समयः । अत्रापि जीवद्वैविध्यं दर्शयति- अत्रस्थोऽपीति । क्षपकस्वरूपमाह-क्षपकेति । कषायाष्टकादीनां क्षपयितेत्यर्थः । काः कर्मप्रकृतीः क्षपयतीत्यत्राह - अयमिति । दर्शनावरणीयत्रिकमिति, निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपमित्यर्थः, नामेति, नरकद्विकतिर्यग्द्विक साधारणोद्योतसूक्ष्मनामैकद्वित्रिचतुरिन्द्रियजात्यातपस्थावररूपमित्यर्थः । मोहनीयेति, अप्रत्या
४२८
ख्यानप्रत्याख्यानकषाय-नपुंसकस्त्रीवेदहास्यरत्यरतिभयशोकजुगुप्सापुरुषवेदसंज्वलनक्रोधमानमायारूपामित्यर्थः । उपशमकस्वरूपमाह - उपशमेति । कषायाष्टकादीनामुपशमयितेत्यर्थः । मोहनीयेति । अप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायाऽप्रत्याख्यानप्रत्याख्यानलोभहास्य-षट्कवेदत्रयरूपविंशतिप्रकृतिमेवेत्यर्थः । अत्रस्थो जीवो हास्यरत्यरतिभयशोकजुगुप्साव्यवच्छेदाद् द्वाविंशतेर्बन्धकः । अत्र षड्विंशतिप्रकृतिभ्यो हास्यादिषट्कप्रकृतिविगमे विंशतेरवशेषाद्यद्यपि द्वाविंशतेर्बन्धकत्वमनुपपन्नं तथापि नानाजीवापेक्षया तथोक्तिः, एकजीवापेक्षया तु चतसृणामेवापगमः । हास्यषट्कोदयव्यवच्छेदाच्च षट्षष्टेर्वेदयिता, त्र्युत्तरशतसत्ताकश्च मानान्तपञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् ॥
હવે નવમું ગુણસ્થાન કહે છે
ભાવાર્થ - પરસ્પર અધ્યવસાય સ્થાનોની વ્યાવૃત્તિ (પરિવર્તન)ના અભાવવિશિષ્ટ સૂક્ષ્મસંપરાયની અપેક્ષાએ સ્થૂલકષાયના ઉદયવાળું સ્થાન અનિવૃત્તિગુણસ્થાન. આ અન્તર્મુહૂર્ત કાળવાળું છે. અહીં રહેલો જીવ ક્ષપક અને ઉપશમના ભેદે બે પ્રકારનો છે. ક્ષપકશ્રેણિમાં રહેલ ક્ષપક, આ દર્શનાવરણનીયની ત્રણ प्रकृतिखोने, नामदुर्मनी (13) अद्धृतिखोने अने मोहनीयनी ( २० ) अर्थप्रकृतिखाने जपावे छे. ઉપશમશ્રેણિમાં રહેલ ઉપશમક કહેવાય છે. આ મોહનીયની (૨૦) કર્મપ્રકૃતિઓને ઉપશમાવે છે.
વિવેચન – એકીસાથે જ જે સ્થાનમાં દાખલ થયેલ છે એવા અનેક (બહુ)પણ જીવોના પરસ્પર અધ્યવસાયસ્થાનો પલટાતા નથી, તેમજ સૂક્ષ્મપરંપરાયની અપેક્ષાએ જ્યાં સ્થૂલકષાયનો ઉદય હોય તેવું