________________
मंगलाचरण
मनेनागमनमस्कारेण स्वकीयग्रन्थस्य समूलत्वं सूचितं, एतेन छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वे हेतावसिद्धतोद्भाविता । तथा गुरोरप्युपास्यतया प्रथमं गुरुतमस्याहतस्तदागमस्य च गुरुद्वारा प्राप्यमाणत्वात्सूरेस्ततो ग्रन्थस्यास्य मूलभूतस्याऽऽगमस्य प्रणामक्रम इत्यपि विनेयाः शिक्षिताः । तत्त्वानि जीवादीनि, न्यायास्तदधिगमकाः प्रमाणनयरूपास्तेषां विशिष्टा भाः स्वरूपप्रकारप्रमाणानि वस्तुयाथार्थ्यप्रकाशकत्वात्, तासामाकर इवाकरस्ताः करोतीति वा तत्त्वन्यायविभाकरस्तम् । एतेन तत्त्वन्याया अभिधेयास्तज्ज्ञानं प्रयोजनं, तर्कानुसारिणः प्रत्युपायोपेयलक्षणस्सम्बन्धश्च प्रदर्शितः, अत्रेदम्बोध्यम्, प्रयोजनं ग्रन्थकर्तृगतं श्रोतृगतञ्चेति द्विविधम्, अनन्तरपरम्परभेदतः प्रत्येकमपि पुनद्विवविधम्, ग्रन्थकर्तृरनन्तरं प्रयोजनं सत्त्वानुग्रहः सर्वज्ञोदितपदार्थप्रतिपादनात् । परम्परन्तु मोक्षावाप्तिर्भव्यासत्त्वानुग्रहप्रवृत्तस्य स्वर्गप्राप्त्यादिपरम्परया परमपदस्यावश्यप्राप्तेः । श्रोतृणाञ्चानन्तरं प्रयोजनं ग्रन्थसारभूतपदार्थयथावत्परिज्ञानं, परम्परन्तु परमपदप्राप्तिरेव, यथावद्विदितपदार्थसार्थानां निःसारसंसारोद्वेगजननात् परमपदप्राप्तयेऽङ्गीकृतप्रयत्नानां निःश्रेयसावाप्तेरिति । सुललितं शब्दतो लालित्यवन्तं, एतेनास्य ग्रन्थस्य बालानामनायासेन बोधजनकत्वमादर्शितम् । ग्रन्थंवाक्यसन्दर्भरूपं प्रकुर्वे-निबध्नामि । मुदा-आनन्देन नतु क्लेशेनेतिभावः ।
ग्रन्थेनानेन श्लोकद्वयात्मकेनेष्टदेवतागुर्वागमानां नमस्कारोऽभिधेयाद्यभिधानेन शिष्यप्रवृत्तिप्रतिबन्धकशङ्काशङ्कसमुद्धरणञ्च कृतम् । अनायासेन बालबोधप्रयोजकत्वोपदर्शकसुललितपदेन तत्त्वन्यायानां महामतिभिः पूर्वसूरिभिर्गम्भीरवाक्यप्रबन्धैाख्यातत्वेऽपि साम्प्रतकालीनान्तेवासिनां मतिमान्द्यतया तैर्ग्रन्थैर्यथावदर्थावगमो न भवेदिति मन्वानेन मया मन्दमतिनाऽपि मन्दतरमतीनां शिष्याणामर्थावगमनिमित्तं सरलवचनप्रकारेणामुना ग्रन्थ्यन्ते त इत्यपि भाव आविष्कृतः ॥
ननु मङ्ग्यतेऽधिगम्यते येन हितं तन्मङ्गलं, मङ्गं धर्मं लाति-समादत्त इति मङ्गलं, मां भवात्संसाराद्गालयति-अपनयतीति मङ्गलं, माः-सम्यग्दर्शनादिलक्ष्मीर्गलयति प्रापयतीति वा मङ्गलमितिनिरुक्तिभिहितप्रापकत्वधर्मप्रापकत्वसंसारापनायकत्वसम्यग्दर्शनादिप्रापकत्वरूपार्थानां शास्त्रमात्रेऽस्मिन् सत्त्वेन तदादौ मङ्गलकरणमनर्थकमितिचेन्न मङ्ग्यतेऽलङ्क्रियते शास्त्रमनेन, मन्यते-ज्ञायते निश्चीयते विघ्नाभावोऽनेन, मोदन्ते-शेरते विघ्नाभावेन निष्प्रकम्पतया सुप्ता इव जायन्तेऽनेन, शास्त्रस्य वा पारं गच्छन्त्यनेन, मा भूगलो विघ्नो यस्माच्छास्त्रस्येति वा मङ्गलमिति निरुक्तिलब्धशास्त्रालङ्कारकत्वविघ्नाभावनिश्चायकत्व