________________
३५६
तत्त्वन्यायविभाकरे अस्योत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसेत्येकः, मनसा कायेनेत्यपरः, वाचा कायेनेत्यन्यः, तत्राद्ये मनसाऽभिसन्धिरहित एव हिंसादिकं वाचाऽब्रुवन्नेवासंज्ञिवत्कायेन दुश्चेष्टितादीनि करोति, द्वितीये मनःकायाभ्यामभिसन्धिदुश्चेष्टितादि परिहरन्नेवानाभोगाद्वा वाचैव हन्मि घातयामि चेति ब्रूते । तृतीये च मनसैवाभिसन्धिकृत्य करोति कारयति च । अत्र सर्वत्र त्रिभिरनुमतिरस्त्येव । द्विविधमेकेनेति तृतीयः, अत्रऽप्युत्तरभङ्गास्त्रयः, द्विविधं करणं कारणञ्चैकविधेन मनसा वा वचसा वा कायेन वेति । एकविधं त्रिविधेनेति चतुर्थः, अत्र चोत्तरौ द्वौ भङ्गौ, तत्रैकविधं करणं वा कारणं वा मनसा वाचा कायेन चेति । एकविधं द्विविधेनेति पञ्चमः, उत्तरभङ्गाश्च षट् एकविधं करणं वा कारणं वा मनोवाग्भ्यां वा मनःकायाभ्यां वा वचःकायाभ्यां वेति । एकविधमेकविधेनेति षष्ठः, अवान्तरभङ्गाष्षट्, एकविधं करणं वा कारणं वा एकविधेन मनसा वा वाचा वा कायेन वेति, इत्येवं मूलभङ्गाः षट् । उत्तरगुणान् गुणव्रतशिक्षाव्रतरूपानाश्रित्य सामान्येनैक एव भेदो विवक्षित इति सप्तमोऽविरतश्चाष्टम इति । तत्र स्थूलानां निरपराधानां निरपेक्षं सङ्कल्पपूर्वकं प्राणिनां प्राणव्यपरोपणरूपां हिंसां प्रत्याख्यातीतीदं प्रथममणुव्रतम्, श्राद्धानां सूक्ष्मपृथिव्यादिप्राणिवधान्निवृत्त्यभावेन स्थूलानामित्युक्तम्, कृष्याद्यारम्भजन्यद्वीन्द्रियादिजीवप्राणव्यपरोपणस्य शरीरकुटुम्बनिर्वाहान्यथानुपपत्त्या सम्भवेन सङ्कल्पपूर्वकमित्युक्तम् । सापराधे गुरुलाघवचिन्तनपूर्वकतत्प्रवृत्तिनिवृत्तिसम्भवेनानियमात् निरपराधिनामित्युक्तम्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च वधबन्धादिकरणानिरपेक्षमित्युक्तम् । इत्यहिंसाणुव्रतं प्रथमम् । निखिलद्विपदचतुष्पदापदद्रव्यविषयकालीकानि रक्षणाद्यर्थमन्यन्यस्तस्यापलापवचनं देयादेयविषयकमुत्कोचमत्सरादिप्रयुक्तं प्रमाणपूर्वकं वचनञ्च क्लिष्टाशयोद्भूतत्वात्स्थूलासत्यरूपं तस्माद्विरमणं द्वितीयमणुव्रतम्, यथा कन्यालीकं द्विपाद्विषयकं, वस्तुतोऽतथाभूतां द्वेषादिना विषकन्येयं दुश्शीलेयमविषकन्येयं सुशीलेयमित्यादिरूपेण कथनमेकविधमलीकं, गवालीकं चतुष्पाद्विषयमत्राप्यतथाभूतां गां बहुक्षीरेयमल्पक्षीरेयमित्यादिरूपेण वर्णनं द्वितीयमलीकं, भूम्यलीकमपदद्रव्यविषयं, इहापि परकीयां भूमिमात्मीयामिति स्वीयां परकीयामिति ऊषरं क्षेत्रमनूषरमनूषरञ्चोषरमिति वदतस्तादृग्वचनं तृतीयमलीकं, न्यासनिह्नवो रक्षणायान्यसमर्पितानां सुवर्णादीनामपलापवचनरूपं चतुर्थम्, अपदद्रव्यविषयकालीकेऽस्यान्तर्भावसम्भवेऽपि न्यासनिह्नवस्य महापापत्वात्पृथगुक्तिः, अदत्तादानेऽस्याऽन्तर्भावसम्भवेऽपि क्रियाप्राधान्यात्तस्मादस्य वचनप्राधान्येनात्रोक्तिः । कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्योत्को