________________
सूत्र - १६, सप्तमः किरणः
३५१ कस्य कथं सम्यक्त्वमुपजायत इत्यत्राह-भव्येति । भव्यसंज्ञिपञ्चेन्द्रियप्राणिनो यथावद्भगवदुदितेषु जीवादिपदार्थेषु निसर्गादासादितसुनिर्मलत्वगुणरूपात्मस्वभावात्, उपदेशाद्वा सद्गुरूपदिष्टशास्त्रश्रवणाद्वा सम्यक्श्रद्धास्वरूपं सम्यक्त्वं समुन्मिषतीति भावः । दशविधमेतत् सम्यक्त्वमात्रस्य निसर्गोपदेशाज्ञासूत्रबीजाभिगमविस्तारक्रियासंक्षेपधर्मप्रयुक्तत्वात् । उपदेशादिकमन्तरेण क्षयक्षयोपशमादिना जीवाजीवादिपदार्थविषयिणी रुचिनिसर्गसम्यक्त्वम् । परोपदेशप्रयुक्तजीवादिपदार्थाभिरुचिरुपदेशसम्यक्त्वं, सर्वज्ञाज्ञयैव धर्मानुष्ठानविषया रुचिराज्ञासम्यक्त्वं, सूत्राध्ययनाभ्यासजन्यविशिष्टज्ञानतो जीवादिविषयिणी रूचिस्सूत्रसम्यक्त्वं, एकेन पदेनानेकपदार्थप्रतिसन्धानद्वारा प्रसरणशीला रुचिर्बीजसम्यक्त्वं, अर्थः सकलसूत्रविषयिणी रुचिरभिगमसम्यक्त्वं, सर्वप्रमाणनयजन्यसर्वद्रव्यभावविषया रुचिविस्तारसम्यक्त्वं, दर्शनज्ञानचारित्रतपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियासम्यक्त्वं, अनभिगृहीतकुदृष्टेः प्रवचनानिष्णातस्य निर्वाणपदमात्रविषयिणी रुचिः संक्षेपरुचिः, धर्मपदवाच्यविषयकरुचिर्धर्मसम्यक्त्वमिति ॥ कदा तद्भवतीत्यत्राह-उत्कृष्टत इति । सम्यग्दृष्टीनां सर्वेषां किञ्चिन्न्यूनापार्धपुद्गलपरावर्त्तमात्रमेव संसारस्यावशेषात्, सोऽपि तीर्थकरादिकृताशातनाबहुलानामेव, न तु सर्वेषामिति भावः । जघन्यत इति, तस्मिन्नेव भवे मुक्तिगामिनोऽपीत्यर्थः ॥ अत्रस्थो जीवस्सप्तसप्ततेर्बन्धकस्तीर्थकृदायुर्द्विकस्य च बन्धात् । चतुरुत्तरशतस्य वेदयिता मिश्रोदयव्यवच्छेदात् । आनुपूर्वीचतुष्कसम्यक्त्वोदयाच्च । अष्टत्रिंशदधिकशतसत्ताकश्च । उपशमकस्तु चतुर्थादेकादशं यावत्सर्वत्राष्टचत्वारिंशदधिकशतसत्ताकः क्षपकस्य तु सत्ता तद्गुणस्थाने दर्शयिष्यते ॥
ચોથું અવિરત સમ્યગ્દષ્ટિ ગુણસ્થાનભાવાર્થ - સમ્યકત્વ હોય છતે અપ્રત્યાખ્યાન આવરણ રૂપ કષાયના ઉદયથી, સાવઘયોગથી અને સર્વથા અવિરમણ (અવિરત સમ્યગ્દષ્ટિ ગુણસ્થાન) ઉત્કૃષ્ટથી મનુષ્યભવથી અધિક ૬૬ સાગરોપમાં સ્થિતિવાળું આ છે. સમ્યકત્વ, ભવ્ય-સંજ્ઞિપંચેન્દ્રિયોને નિસર્ગથી કે ઉપદેશથી થાય છે. ઉત્કૃષ્ટથી અપાઈ પુદ્ગલપરાવર્ત રૂપ સંસાર જેઓને અવશિષ્ટ હોય છે, તેઓને આ સમ્યકત્વ થાય છે. જઘન્યથી તે જ ભવમાં भोक्षे नारने ५५ थाय छे. --
વિવેચન - જે સમ્યકત્વની હાજરીમાં અપ્રત્યાખ્યાન કષાયના ઉદયથી જીવ સાવદ્ય વ્યાપારનું પ્રત્યાખ્યાન સુંદર-સત્ય છે, એમ જાણતો હોવા છતાં પણ પાલન કરી શકતો નથી. ફક્ત સમ્યકત્વ માત્રનો અનુભવ કરે છે તેવું સમકિત હોય છે.
१. बद्धतीर्थकृन्नामकर्मणोऽबद्धायुषः प्राप्तक्षायिकसम्यक्त्वस्यापेक्षयेदम् ॥