________________
३५०
तत्त्वन्यायविभाकरे
૦ ૧૪૭ કર્મપ્રકૃતિઓની સત્તાવાળો હોય છે, કેમ કે-તીર્થંકરની સત્તાનો અભાવ છે. अथ चतुर्थं गुणस्थानमाह
सम्यक्त्वे सत्यप्रत्याख्यानावरणकषायोदयेन सावद्ययोगात्सर्वथाऽविरमणमविरतसम्यग्दृष्टिगुणस्थानम् । उत्कृष्टतो मनुजभवाधिकषट्षष्टिसागरोपमस्थितिकमिदम् । सम्यक्त्वञ्च भव्यसंज्ञिपञ्चेन्द्रियाणां निसर्गादुपदेशाद्वा भवति । उत्कृष्टतोऽपार्थपुद्गलपरावर्त्तावशिष्टसंसाराणामेतद्भवेत् । जघन्यतस्तद्भवमुक्तिगामिनोऽपि । १६ ।
सम्यक्त्वे सतीति । यत्राप्रत्याख्यानकषायोदयाज्जीवः सावद्ययोगप्रत्याख्यानं सुन्दरमिति जानन्नपि न पालयति केवलं सम्यक्त्वमात्रमनुभवति तादृशमित्यर्थः । इदमुक्तं भवति यो हि पूर्वोदितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः, क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिविरतिप्रत्ययं दुरन्तनरकादिदुःखफलकं कर्मबन्धं, सावद्ययोगविरतिञ्च परममुनिप्रणीतसिद्धिसौधाध्यारोहनिःश्रेणिकल्पां जानन्नपि न विरतिमभ्युपगच्छति न च तत्पालनाय यततेऽप्रत्याख्यानावरणोदयेन विघ्नितत्वात्, ते ह्यल्पमपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यत इति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयादनुदीर्णस्योपशमाच्च निर्वृत्तं सम्यक्त्वं क्षायोपशमिकसम्यक्त्वमुच्यते, यदुदयामागतं मिथ्यात्वं तद् वेदितत्वात्क्षीणं यत्तु शेषं सत्तायामनुदयगतं वर्त्तते तदुपशान्तमुपशान्तं नाम विष्कम्भितोदयभावमपनीतमिथ्यात्वस्वभावञ्च शेषमिथ्यात्वं, अत्र च मिथ्यात्वमिश्र - पुञ्जावाश्रित्य विष्कम्भितोदयं शुद्धपुञ्जमाश्रित्यापनीतमिथ्यात्वस्वभावमिति बोध्यम् । यद्यप्यौपशमिकेऽपि उदीर्णमिथ्यात्वस्य क्षयोऽनुदीर्णस्य चोपशमोऽस्ति तथाप्यत्र क्षायोपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेन वेद्यते, तत्र तदपि नेति विशेषोऽवसेयः । अत्र शोधितमिथ्यात्वपुद्गला यथावस्थिततत्त्वरुच्यध्यवसायात्मकदृष्टेः सम्यक्त्वावारका न भवन्त्यतस्तेऽप्युपचारेण सम्यक्त्वमुच्यन्त इत्यपि बोध्यम् । अनन्तानुबन्धिकषायचतुष्कक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे सति क्षायिकं सम्यक्त्वं भवति ॥ अस्य गुणस्थानस्योत्कृष्टां स्थितिमाह - उत्कृष्टत इति मनुजभवेति । क्षायोपशमिकमाश्रित्येदम्, क्षायिकमाश्रित्य तु त्रयस्त्रिंशत्सागरोपमाणि साधिकानि । कश्चिदितः स्थानादुत्कृष्टस्थितिष्वनुत्तरविमानेषूत्पन्नः, तत्र चाऽविरतसम्यग्दृष्टित्वेन त्रयस्त्रिशत्सागरोपमाणि स्थितस्ततश्च्युत्वाऽत्राऽप्याऽऽयातो यावदद्यापि विरतिं न लभते तावात्तद्भावेनैव स्थित इति मनुष्यभवसम्बद्धकतिपयवर्षाधिकत्रयस्त्रिंशत्सागरोपमत्वं विज्ञेयम् ।