________________
सूत्र - ५९, ६०, पञ्चमः किरणे
२८५ पापबन्धहेतवस्तु इति । नियतपुल्लिंगो हेतुशब्दः । यद्यपि जीवस्याशुभध्यवसायविशिष्टा वाक्कायमनसामशुभव्यापारा बन्धहेतवस्तथापि तानेव विशेषतो दर्शयति, यद्वा व्यापारस्य शुभाशुभत्वं न शुभाशुभकर्मकारणत्वेन, शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् । किन्त्वशुभपरिणामनिर्वृत्तत्वादतस्ताने वाह प्राणातिपातेत्यादिना । प्राणानामतिपातो विनाशः पातनं शातनं वा प्रमत्तयोगाद्रव्यतो भावतश्च । मृषावादो विद्यमानस्यापलापः, अविद्यमानप्रकाशनं शास्त्रप्रतिषिद्धवागनुष्ठानञ्च । अदत्तादानं, परैरदत्तस्य परिगृहीतस्य वा पदार्थसार्थस्य स्वेच्छया ग्रहणं धारणञ्च । मैथुनं मोहकर्मोदयादुद्भूततीव्रकायादिपरिणामयोः स्त्रीपुंसयोमिथुनभाव: परस्पराऽऽश्लेषः सुखोपलम्भकः । परिग्रहो बाह्याभ्यन्तरेषु लोभानुरक्तचित्तवृत्त्या अभिलाषः । अप्रशस्ताः क्रोधमानमायालोभरागद्वेषाः, प्रशस्तास्त्वेते न पापानुकूलाः । कलहो राटिः, अभ्याख्यानं प्रकटमसद्दोषारोपणं पिशुनता दौर्जन्यम्, मोहनी योदयाच्चित्तोद्वेगोऽरतिस्तत्फला विषयेषु मोहनीयोदयाद्या चित्ताभिरतिः साऽरतिरतिः, परपरिवादः परनिन्दा, मायया सह मृषा मायामृर्षा, मिथ्यात्वशल्यञ्च, अनेकधा प्राणिगणशलनाच्छल्यं, मिथ्यात्वं तत्त्वाश्रद्धानं, तदेव शल्यं । एते द्वयशीतिविधपापकर्मणां हेतवः । इति पापतत्त्वमवसितमित्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य
तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पापतत्त्वनिरूपणो नाम पञ्चमः किरणः ॥
પાપના હેતુઓભાવાર્થ - પાપના બંધના હેતુઓ તો પ્રાણાતિપાત-મૃષાવાદ-અદત્તાદાન-મૈથુન-પરિગ્રહ-અપ્રશસ્ત ओ५-मान-माया-मोम-राग-द्वेष-सह-सम्याण्यान-पिशुनता-तिमति-५२-५रिवाह-मायामृषावाहમિથ્યાત્વશલ્ય.” પાપતત્ત્વ સમાપ્ત થાય છે.
વિવેચન - અહીં હેતુ શબ્દ નિયત (અજહતુ) લિંગવાળો છે. જો કે જીવના અશુભ અધ્યવસાયવિશિષ્ટ મન-વચન-કાયાના અશુભ વ્યાપારો બંધના હેતુઓ છે, તો પણ તે બંધહેતુઓને જ વિશેષથી દર્શાવે છે. અથવા વ્યાપારનું શુભ અને અશુભપણું શુભાશુભ કર્મની કારણતાની અપેક્ષાએ નથી, કેમ કે-શુભ યોગ પણ જ્ઞાનાવરણ આદિ (અશુભ) બંધનો હેતુ છે એમ સ્વીકાર કરેલ છે પરંતુ યોગનું અશુભપણું વાસ્તવિક રીતે - અશુભ આશયથી નિર્મિત બનેલું છે.
१. मायामृषावादोऽयं तृतीयकषायद्वितीयाश्रवसंयोगरूपः उपलक्षणोऽयमेवंविधसर्वसंयोगानाम् । वेषान्तरभाषान्तरकरणेन परवञ्चनरूपोवा बोध्यः ॥