________________
तत्त्वन्यायविभाकरे
[સૂપાટિકા નામ, બે અગ્રભાગ-છેડાથી સંગત જે ચામડી-નસ-માંસથી અવબદ્ધ જે હાડકાં, તે ‘સૂપાટિકા’ કહેવાય છે. સૂપાટિકા એટલે ફલસંપુટ. જેમ ફલકસંપુટમાં બે પાટીયા પરસ્પર સ્પર્શ માત્રથી રહે છે, તેમ આ સંઘયણમાં પરસ્પર અડીને હાડકાં રહે છે.]
२८२
આ સઘળાંય સંઘયણો ઔદારિકશરીરમાં જ લોઢાનો પાટો, લોઢાની ખીલી અને લોઢાના મર્કટબંધથી બંધાયેલ કમાડની માફક હોય છે.
अथ न्यग्रोधपरिमण्डलादिसंस्थानान्याह
नाभेरूर्ध्वं विस्तृतिबाहुल्यसल्लक्षणनिदानं कर्म न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमाणलक्षणवत्त्वप्रयोजकं कर्म सादिः । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकं कर्म कुब्जं । ५८ ।
I
1
नाभेरूर्ध्वमिति । नाभेरूर्ध्वमेवेत्यर्थः । यथा न्यग्रोधो वृक्ष उपरि संपूर्णावयवोऽधस्तु हीनस्तथेदमपि कर्म नाभेरुपरि विस्तारबहुलस्य संपूर्णलक्षणादिमत्त्वस्य चाधस्तद्धीनस् शरीरस्य प्रयोजकमिति भावः । नाभेरूर्ध्वभागमात्रावच्छेदेन विस्तृतिबाहुल्यसल्लक्षणनिदानत्वे सति कर्मत्वं लक्षणम् । समचतुरस्रसंस्थानवारणाय नाभेरूर्ध्वभागमात्रावच्छेदेनेति । नाभेरूर्ध्वनिखिल-भागमात्रावच्छेदेनेत्यपि वाच्यं तेन यत्किञ्चित्पाण्यादीनां विस्तृतिबाहुल्यसल्लक्षणप्रयोजके कुब्जनामकर्मणि नातिव्याप्तिः । स्थिती चर्षभनाराचवत् । सादिमाचष्टे - नाभ्यधोभागेति । येन नाभेरधस्तादेव सर्वेऽवयवाः समीचीनेन लक्षणेन च युतास्तदित्यर्थः । नाभ्यधस्सर्वभागमात्रावच्छेदेन सुप्रमाणलक्षमवत्त्वप्रयोजकत्वे सति कर्मत्वं लक्षणं समचतुरस्त्रेऽतिव्याप्तिवारणाय नाभ्यधस्सर्वभागमात्रावच्छेदेनेति । इदमेव साचिस्वातिशब्दाभ्यां व्यवह्रियते । स्थिती तु नाराचसंहननवत् । कुब्जमभिधत्ते -सलक्षणेति । यतः कन्धराया उपरितनावयवा हस्तपादञ्च समचतुरस्रलक्षणयुक्तं अधस्तनकायस्तु लक्षणविसंवादी तत्कर्म कुब्जम् । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकत्वे सति कर्मत्वम् । आदिना पादकन्धरोपरितना अवयवा ग्राह्याः प्रभृतिना च तद्भिन्नाः । हुण्डेऽतिव्याप्तिवारणायाद्यं सत्यन्तं, समचतुरस्रादावतिप्रसक्ति-वारणार्थं द्वितीयं सत्यन्तम् । पाण्यादिमत्त्वञ्च प्रयोजकतासम्बन्धेन । अर्धनाराचसंस्थानवदस्य स्थिती ॥
ન્યગ્રોધપરિમંડલ આદિ સંસ્થાનો
ભાવાર્થ - નાભિથી ઉ૫૨ના ભાગમાં જ વિસ્તારથી વિશાળતા અને શુભ લક્ષણમાં નિદાનભૂત કર્મ 'न्यग्रोधपरिमंडल. '