________________
सूत्र - ५७, पञ्चमः किरणे
२७९
અપ્રશસ્તસ્પર્શ નામશરીરનિષ્ઠ અપ્રશસ્તસ્પર્શ પ્રયોજકત્વ વિશિષ્ટ કર્મત્વ' એ અપ્રશસ્ત સ્પર્શ નામનું લક્ષણ છે. પદકૃત્ય સ્પષ્ટ છે. પૂર્વની માફક બંને સ્થિતિ છે. દા. ત. અશુભ સ્પર્શના ઉદયવાળા બાવલ વગેરે આ પ્રમાણે વિભાગવાક્યમાં “અપ્રશસ્તવર્ણચતુષ્ક પદ કહેલ છે.
ऋषभनाराचादिसंहननान्याह
उभयतो मर्कटबन्धाकलितास्थिसंचयवृत्तिपट्टबन्धसदृशास्थिप्रयोजकं कर्म ऋषभनाराचम् । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानं कर्म नाराचम् । एकतो मर्कटबन्धविशिष्टास्थिसन्धिनिदानं कर्मार्धनाराचम् । केवलकीलिकासदृशास्थिबद्धास्थिनिचयप्रयोजकं कर्म कीलिका ॥ परस्परपृथस्थितिकानामस्थनां शिथिलसंश्लेषनिदानकर्म सेवार्तम् । इति संहननपञ्चकम् । ५७ ।
उभयत इति । उभयतो मर्कटबन्धसंवलितास्थिसंचयवृत्तिपट्टसदृशास्थिप्रयोजकत्वे सति कर्मत्वं लक्षणम् अत्र तादृशास्थिमात्रप्रयोजकत्वे सतीति वाच्यमन्यथा वज्रर्षभनाराचे व्यभिचारापत्तेः । नाराचे व्यभिचारवारणाय पट्टसदृशास्थीति । अस्योत्कृष्टा स्थितिर्द्वादशसागरोपमकोटीकोट्यः, द्वादशवर्षशतान्यबाधा, पञ्चेन्द्रियवज्जघन्या । अस्य कर्मणः स्थाने वज्रस्यार्धं ऋषभस्यार्धं नाराचस्यार्धमिति कृत्वाऽर्धवज्रर्षभनाराचनाम पठन्ति तत्त्वार्थभाष्यकाराः । कर्मप्रकृतिग्रन्थेष्वत्र पट्टहीनं वज्रनाराचनाम पठितम् । नाराचसंहननमाचष्टेउभयत इति । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानत्वे सति कर्मत्वं लक्षणम्, वज्रर्षभनाराचादावतिव्याप्तिवारणाय मात्रपदम् । अर्धनाराचे व्यभिचारवारणायोभयत इति । चतुर्दशसागरोपमकोटीकोट्यः परा स्थितिः चतुर्दशवर्षशतान्यबाधा, जघन्या पञ्चेन्द्रियवत् । अर्धनाराचमाचष्टे-एकत इति । एकपार्श्वमात्रावच्छेदेन मर्कटबन्धविशिष्टास्थिसंधिनिदानत्वे सति कर्मत्वं लक्षणम् । नाराचादिवारणायैकपार्श्वमात्रावच्छेदेनेति । अत एव मात्रपदमपि, षोडशसागरोपमकोटीकोट्योऽस्य परा स्थितिरबाधा च षोडशवर्षशतानि जघन्या पञ्चेन्द्रियवत् । कीलिकामाह-केवलेति । केवलकीलिकासदृशास्थिबद्धास्थिनिचयप्रयोजकत्वे सति कर्मत्वं लक्षणम् । वज्रर्षभनाराचे व्यभिचारवारणाय केवलेति । उत्कृष्टा स्थितिरस्याष्टादशसागरोपमकोटीकोट्यः, अष्टदशवर्षशतान्यबाधा जघन्या तु पञ्चेन्द्रियस्येव । अथ सेवार्त्तमाख्यातिपरस्परेति । परस्परपृथक्स्थितिकानामस्थ्नां शिथिलसंश्लेषनिदानत्वे सति कर्मत्वं लक्षणम् ।