________________
सूत्र ५५, ५६, पञ्चमः किरणे
२७७
સમજવું. કેવી ઇન્દ્રિયવાળાના વ્યવહારમાં પ્રયોજક છે ? તો કહે છે કે-આ તેઈન્દ્રિયજાતિજન્ય ‘સ્પર્શનરસન-પ્રાણ એમ ત્રણ ઇન્દ્રિયો છે.’ આ તે ઇન્દ્રિયની બંને સ્થિતિ બેઈન્દ્રિયની માફક સમજવી.
-
૦ ‘ચતુરિન્દ્રિયવ્યવહાર કારણત્વ વિશિષ્ટ કર્મત્વ' ચતુરિન્દ્રિયજાતિનું લક્ષણ છે. પદકૃત્ય પૂર્વ મુજબ સમજવું. કેવી ઇન્દ્રિયવાળાના વ્યવહારમાં પ્રયોજક છે ? તો કહે છે કે-આ ચતુરિન્દ્રિયજાતિજન્ય ‘સ્પર્શનરસન-પ્રાણ-ચક્ષુ એમ ચાર ઇન્દ્રિયો છે. આ ચતુરિન્દ્રિયની બંને સ્થિતિ બેઈન્દ્રિયજાતિની માફક સમજવી. अथ कुखगत्यादीन्याह
अप्रशस्तगमनप्रयोजकं कर्म कुखगतिः । यथा खरोष्ट्रादीनाम् । स्वावयवैरेव स्वपीडाजनननिदानं कर्म उपघातनाम । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकं कर्म अप्रशस्तवर्णनाम । यथा काकादीनाम् । शरीरनिष्ठाप्रशस्तगन्धप्रयोजकं कर्म अप्रशस्तगन्धनाम । यथा लशुनादीनाम् । शरीरवृत्त्यप्रशस्तरसप्रयोजकं कर्म अप्रशस्तस्पर्शनाम । यथा बब्बुलादीनाम् । इत्यप्रशस्तवर्णचतुष्कम् । ५६ ।
अप्रशस्तेति । अप्रशस्तगमनप्रयोजकत्वे सति कर्मत्वं लक्षणम् । यद्वशेन च खरोष्ट्रटोलादीनामिवाप्रशस्तगमनमङ्गिनामुपजायते सा कुत्सिता विहायोगतिः कुखगतिः । नरकगत्यादिलक्ष्यताव्युदासाय लक्ष्ये खेति । शुभखगतावतिव्याप्तिवारणायाप्रशस्तेति । स्थिती च पञ्चेन्द्रियवत् । निदर्शनमाह यथेति । उपघातनाम निरूपयति - स्वावयवैरेवेति । स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्दलम्बकचौरदन्तादिभिश्शरीरान्तर्वर्धमानैर्यदुदयादुपहन्यते जन्तुस्तदुपघातनामेत्यर्थः । शरीराङ्गोपाङ्गघातकं स्वपराक्रमविजयाद्युपघातजनकं वोपघातनामेति तत्त्वार्थभाष्यम् । असातादावतिव्याप्तिवारणाय स्वावयवैरेवेति । पञ्चेन्द्रियवदेवास्य स्थिती । अप्रशस्तवर्णनामाह-शरीरनिष्ठेति । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अप्रशस्तो वर्णोऽतिबीभत्सदर्शन:कृष्णादिवर्णः । प्रशस्तवर्णनाम्न्यतिव्याप्तिवारणायाप्रशस्तान्तम् । पुद्गलनिष्ठाप्रशस्तवर्णे कर्मणोऽप्रयोजकत्वेनाप्रशस्तवर्णनामकर्म फलानुमेयं न भवेदिति शरीरनिष्ठेति । पञ्चेन्द्रियवदस्य स्थिती । अप्रशस्तवर्णनामकर्मोदयवतो दृष्टान्तमाह यथेति । अप्रशस्तगन्धनामाचष्टे-शरीरेति । कुथितमृतमूषकादिदुर्गन्धताऽप्रशस्तगन्धः । शिष्टं सर्वमप्रशस्तवर्णवत् । पञ्चेन्द्रियवदस्य स्थिती निदर्शनमाह यथेति । अप्रशस्तरसनामाभिधत्तेशरीरवृत्तीति । लक्षणं पूर्ववत् स्थिती च । दृष्टान्तमाह यथेति । अथाप्रशस्तस्पर्शनामाहशरीरवृत्तीति । लक्षणं स्पष्टं कृत्यञ्च, स्थिती पूर्ववत् दृष्टान्तमाह यथेति । विभागवाक्ये त एवाप्रशस्तवर्णचतुष्कपदेनोक्ता इत्याह इतीति ॥