________________
२७४
तत्त्वन्यायविभाकरे
તિર્યંચાનુપૂર્વીભાવાર્થ - બલાત્કારથી તિર્યંચગતિમાં લઈ જવામાં હેતુભૂત કર્મ તિર્યગાનુપૂર્વી'- આ પ્રમાણે તિર્યદ્ધિફ સમજવું.
વિવેચન - “બલા તિર્યગ્રગતિનયન હેતુત્વ વિશિષ્ટ કર્મત્વ' લક્ષણ છે. મનુષ્યની આનુપૂર્વી આદિમાં અતિવ્યાપ્તિના વારણ માટે “તિર્ય” આવું પદ છે. પંચેન્દ્રિય મુજબ બંને સ્થિતિ છે. આ પ્રમાણે વિભાગવાક્યમાં “તિર્યદ્ધિફ’ પદ છે. एकेन्द्रियजातिनाम निरूपयति
एकेन्द्रियव्यवहारहेतुः कर्म एकेन्द्रियजातिः । अस्या: स्पर्शेन्द्रियमेव । ५४ । एकेन्द्रियेति । यदुदयादयं पृथिवीकायिकादिरेकेन्द्रिय इति संज्ञां लभते व्यपदिश्यते च, तादृशं कर्मेत्यर्थः । एकेन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् । द्वीन्द्रियजात्यादिवारणायैकेति । अत्र द्रव्येन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्याद्भवति । भावरूपन्तुतत्तदिन्द्रियावरणक्षयोपशमसामर्थ्याद्भवति, जातिनाम तु व्यवहारनिबन्धनसमानपरिणतौ निबन्धनमिति भाव्यम् । इयं जातिः कीदृशेन्द्रियव्यवहारप्रयोजिकेत्याशङ्कायामाहास्या इति, पञ्चम्यर्थः प्रयुक्तत्वं तथा चैकेन्द्रियजातिनामप्रयुक्तं स्पर्शेन्द्रियमेवेत्यर्थः, केवलस्पर्शेन्द्रियापेक्षया योऽयमेकेन्द्रियव्यवहारस्तत्र प्रयोजकमिदं कर्मेति भावार्थः । उत्कृष्टाऽस्य स्थितिः पञ्चेन्द्रियवत्, जघन्या तु देवगतिवत् ॥
એકેન્દ્રિય જાતિભાવાર્થ - એકેન્દ્રિય તરીકેના વ્યવહારમાં હેતુભૂત કર્મ “એકેન્દ્રિયજાતિ.” આ જાતિમાં સ્પર્શનેન્દ્રિય છે. (જાતિ એટલે જન્મ. એકેન્દ્રિય આદિ શબ્દ વ્યવહારયોગ્ય પર્યાયથી જીવોની ઉત્પત્તિ-જાતિ, તર્ભાવએકેન્દ્રિયત્ન આદિ પર્યાયના કારણભૂત નામકર્મજાતિ.)
१. ननु व्यवहारश्शब्दप्रयोगः, तथा चैकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनभूतजातिविपाकवेद्यकर्मप्रकृतिरेकेन्द्रियादिजातिरिति लक्षणार्थः, तच्च न युक्तं शब्दप्रवृत्तिनिमित्तत्वेन क्वापि जात्यसिद्धेरितरथा हादिपदप्रवृत्तिनिमित्ततया हरित्वादिजातेरपि सिद्धिः स्यात् तथाप्येकेन्द्रियादिशब्दप्रवृत्तिनिमित्ततया तादृशजातिस्वीकारे नारकादिव्यवहारनियामकतया पञ्चेन्द्रियत्वव्याप्यनारकत्वादिजातिसिद्धौ गतिनाम्नो वैयर्थ्यापत्तेश्चेति चेन्न, अपकृष्टचैतन्यादिनियामकतयैकेन्द्रियत्वादिजातिसिद्धेः, न तु शब्दप्रवृत्तिनिमित्ततया, सा च जातिरेकेन्द्रियादिव्यवहारनिबन्धना, लाघवात्तन्निबन्धनतया च जातिनामसिद्धिः । नारकत्वादिकं तु न जातिरूपम्, तिर्यक्त्वस्य पञ्चेन्द्रियत्वादिना साङ्कर्यात् । मानुषत्वावच्छेदेन पञ्चेन्द्रियत्वे तिर्यक्त्वाभावसामानाधिकरण्यस्यैकेन्द्रियत्वावच्छेदेन तिर्यक्त्वे पञ्चेन्द्रियत्वाभावसामानाधिकरणस्य सत्त्वात् तदुभयस्य च तिर्यकपञ्चेन्द्रियत्वावच्छेदेन वृत्तेः, किन्तु सुखदुःखविशेषोपभोगनियामकपरिणामविशेषतया नारकत्वादीनां तन्नियामकत्वेन गतिनाम्न आवश्यकत्वादिति ॥