________________
२५८
तत्त्वन्यायविभाकरे सम्प्रति चारित्रमोहनीयस्य कषायवेदनीयनोकषायवेदनीयरूपेण द्वैविध्यात्कषायस्य च क्रोधमानमायालोभात्मकस्य प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनभेदेन षोडशविधत्वात्तान् क्रमेणाभिधातुमादौ अनन्तानुबन्धिशब्दं निर्वक्ति
अनन्तानुबन्धिनश्चानन्तरसंसारमूलनिदानमिथ्यात्वहेतुका अनन्तभवानुबन्धस्वभावा आजन्मभाविनो नरकगतिप्रदायिनः सम्यक्त्वघातिनः । ३३ ।।
अनन्तानुबन्धिनश्चेति । अनन्तः संसारश्चतुर्गतिरूपस्तमनुबध्नन्त्यनुसन्दधतीत्येवंशीला ये जीवपरिणामविशेषाः क्रोधादयस्तेऽनन्तानुबन्धिनः, यद्यप्येतेषामितरकषायविरहितानामुदयो नास्ति तथापि अवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेक्षकत्वादेतेषामेवैतन्नाम । न पुनः सहजोदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयापेक्षकत्वाभावात् एतदेवाहअनंतसंसारेति । अनन्तस्वरूपसंसारस्य मूलकारणं यन्मिथ्यात्वं तदेव हेतुर्येषामित्यर्थः । मिथ्यात्वसत्त्वे हि नियतमविरतिस्तत्सत्त्वे प्रमादस्तत्सत्त्वे चावश्यं कषाया इति मिथ्यात्वं कषायहेतुरिति भावः । कषायस्य च कर्मशरीरयोग्यपुद्गलग्रहणे प्रधानहेतुत्वादवश्यं तत्सत्त्वे भवसम्बन्ध इत्याशयेनाहानन्तभवानुबन्धस्वभावा इति । क्रोधादय एकैका अपि अनन्तसंसारानुबन्धिन इत्यर्थः । अनुबन्धः सम्बन्धः परस्पराश्लेषरूपः । एषामवधिमाहाऽऽजन्मभाविन इति । यावज्जीवभाविन इत्यर्थः । इष्टानिष्टवियोगसंयोगाभिलषितालाभाद्यन्यतमहेतुना क्रोधादयस्समुत्पन्ना न शाम्यन्त्यामरणं भवान्तरमप्यनुबध्नन्ति, अविद्यमानपश्चात्तापपरिणामास्तीव्रानुशया अत एवैषामाजन्मभावित्वमिति भावः । तत्फलमाह नरकेति । तत्त्वार्थाश्रद्धानरूपमिथ्यात्वस्योदयात् सम्यक्त्वस्य संभव एव नास्तीति क्रोधादय एते स्वाभाविकस्यात्मनस्सम्यक्त्वस्य घातका इत्याशयेनाह सम्यक्त्वघातिन इति ॥
હવે કષાયમોહનીય અને નોકષાયમોહનીય રૂપથી ચારિત્રમોહનીય બે પ્રકારનું હોવાથી ક્રોધ-માનમાયા-લોભ રૂપ કષાયો, દરેક ૧-અનંતાનુબંધી, ૨-અપ્રત્યાખ્યાન, ૩-પ્રત્યાખ્યાન, ૪-સંજ્વલનના ભેદથી (૪૪૪ = ૧૬) સોલ પ્રકારના હોવાથી તે કષાયોને ક્રમસર કહેવા માટે પ્રારંભમાં અનંતાનુબંધી શબ્દને 5 छ.
१. प्रायेणानन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, तेनानन्तानुबन्थ्युदयवतां मिथ्यादृशां केषाञ्चिदुपरितनग्रैवेयकेषूत्पत्तावपि न क्षतिः ॥ २. अनन्तानुबन्धिषूदितेषु न मिथ्यात्वक्षयोपशमस्तदभावाच्च न सम्यक्त्वमित्युपचारेण सम्यक्त्वधातकत्वमेषां न मुख्यतः, तैरेव सम्यक्त्वस्यावृतत्वेन मिथ्यात्वस्य वैयर्थ्यापत्तेः । कषायाणां केवलज्ञानावरणहेतुत्वाभावेऽपि कषायक्षयस्य तद्धेतुत्ववदनन्तानुबन्धिनां क्षयोपशमे सम्यक्त्वलाभो विज्ञेयः॥