________________
तत्त्वन्यायविभाकरे
વિશેષણ અને વિશેષ્યનું પદકૃત્ય પૂર્વની જેમ સમજવું. લાભાન્તરાય આદિ કર્મમાં અતિવ્યાપ્તિના વારણ માટે ‘દાનસામર્થ્ય ભાવપ્રયોજક કર્મ' કહેલ છે. મતિજ્ઞાનાવરણની જેમ આ કર્મની બન્ને સ્થિતિ विद्यारवी.
२३६
लाभान्तरायमाह
सम्यग्याचितेऽपि दातृसकाशादलाभप्रयोजकं कर्म लाभान्तरायः । अनुपहताङ्गस्यापि ससामग्रीकस्यापि भोगासामर्थ्यहेतुः कर्म भोगान्तरायः । एकशो भोग्यं भोगो यथा कुसुमादयः । अनुपहताङ्गस्यापि ससामग्रीकस्याप्युपभोगासामर्थ्यहेतुः कर्मोपभोगान्तरायः । अनेकशो भोग्यमुपभोगो यथा वनितादय: । पीनाङ्गस्यापि कार्यकाले सामर्थ्यविरहप्रयोजकं कर्म वीर्यान्तरायः इत्यन्तरायपञ्चकम् । ९ ।
सम्यगिति । सर्वदाऽर्थिप्रार्थनानुगुणं दातुस्सकाशाद् यस्य कर्मण उदयप्रभावेण याचकेन सविनयं याचितेऽपि अल्पमपि न लभ्यते वस्तु तत्कर्म लाभान्तराय इत्यर्थः । अत्रापि सम्यग्याचितेति पदं प्रयोज्यप्रयोजकभावरक्षायै । अन्यथाऽस्यालाभः किञ्चित्प्रयोज्यो - ऽलाभत्वादित्यत्र याचनसामर्थ्याभावस्य प्रयोजकत्वसिद्धया सिद्धसाधनत्वापत्तेर्लाभान्तरायस्यासिद्धिप्रसङ्गः स्यात् । दानान्तरायादावतिव्याप्तिवारणाय लाभेति । स्थिती च मतिज्ञानावरणवत् । भोगान्तरायं लक्षयति - अनुपहताङ्गस्यापीति । निखिलाङ्गसम्भृतोऽपि माल्यचन्दनादिसामग्रीसमवधानेऽपि यदुदयान्न भुङ्क्ते माल्यादीनि तत्कर्म भोगान्तराय इत्यर्थः । प्रयोज्यप्रयोजकभावरक्षार्थमनुपहताङ्गस्यापि ससामग्रीकस्यापीति च पदम् । भोगपदन्तु दानातरायादावतिव्याप्तिवारणाय । स्थिती मतिज्ञानावरणवत् । भोगोपभोगयोः पर्यायताव्युदसनार्थं भोगशब्दार्थमाह-एकश इति एकवारं सकृदेवेति यावत् । तन्निदर्शनमाहयथेति । कुसुमादयो ह्येकदा भुक्ता न पुनर्भोगाय त एवोपयुज्यन्त इति सकृद्भोगसाधनत्वात्ते भोगा उच्यन्त इति भाव: । उपभोगान्तरायमाह-अनुपहताङ्गस्यापीत्यादिना । स्पष्टम्, स्थिती ज्ञानावरणवत्, उपभोगपदार्थमाह- अनेकश इति बहुवारमित्यर्थः पुनः पुनरिति भाव:, निदर्शनमाह-वनितादय इति । अथ वीर्यान्तरायमाचष्टे - पीनाङ्गस्यापीति । हृष्टपुष्टाङ्गस्येत्यर्थः, निरामये वपुषि सत्यपि कार्यकाले यौवनावस्थायामपि वर्त्तमानोऽल्पशक्तिर्भवति, साध्येऽपि प्रयोजने यदुदयान्न प्रवर्त्तते तत्कर्म वीर्यान्तराय इत्यर्थः । लक्षणविचारः पूर्ववदेव | स्थिती मतिज्ञानावरणवत् । अस्योदयाधिक्यं पृथिव्यप्तेजोवायुवनस्पतिषु द्वीन्द्रियादारभ्य चरमसमयछद्मस्थं यावत् तत्क्षयोपशमजनिततारतम्याद्वीर्यस्य वृद्धिः । उत्पन्नकेवले भगवति तु