________________
सूत्र - २९, चतुर्थ किरणे
२१७ सुखादिरूपेणानुभवनीयानीत्यर्थः । कारणात्मकपुण्यमाह-एतेषामिति । द्वाचत्वारिंशद्विधानां कर्मणामित्यर्थः । हेतव इति नमनादय इत्यग्रेतनेनान्वयः, भवन्तीति शेषः । सुपात्रेभ्य इति, सम्यग्दर्शनज्ञानचारित्रतपस्सम्पन्नेभ्य इत्यर्थः, निरवद्यस्यान्नस्य सुरभिलवणस्निग्धमधुरत्वादिभिरच्युतस्य शालिव्रीहिगोधूमादिनिष्पन्नस्याशनस्य, वसतेर्वाससो जलस्य संस्तारकादीनाञ्च प्रदानम्-अनसूयाऽविषादादरपरमप्रीतिकुशलाभिप्रायदृष्टफलानपेक्षानिरुधित्वानिदानत्वादिगुणयुतदातृकृतातिसर्गः, पुण्योपचयनिर्जराहेतुः, मनसः शुभसंकल्प इति, अनभिध्यादिधर्मशुक्लध्यानध्यायित्वादय इत्यर्थः, वाक्काययोः शुभव्यापार इति, अहिंसाऽस्तेयादयश्शुभः काययोगः, असावद्यादिवचनमागमविहितभाषणं च शुभवाग्योगः, योगैरेभिस्त्रिभिश्शुभकर्मण आस्रवो भवति । जिनेश्वरेति तीर्थपत्याचार्योपाध्यायादीनामित्यर्थः, यद्यपि वस्तुतो मनोवाक्कायानां शुभव्यापारस्यैव द्विचत्वारिंशद्विधस्य पुण्यस्य कारणत्वं तथापि किञ्चिद्विस्तरेण सामान्यशेमुषीकाणां बोधाय तस्यैव प्रपञ्च आदर्शितः । न च पुण्यस्यापि पापवत्पारतन्त्र्याविशेषात्तयोर्भेदोऽनुचित इति वाच्यम् इष्टानिष्टनिमित्तभेदात्तत्सिद्धः । इष्टगतिजातिशरीरेन्द्रियविषयादीनां हि निर्वर्तकं पुण्यम् । अनिष्टगत्यादीनां निवर्तकं पापमिति वैचित्र्यं सुप्रसिद्धमेवेति ॥
तत्र कर्मप्रकृतयः सामान्यतो द्विविधाः, घातिका अघातिकाश्चेति, ज्ञानदर्शनावरणमोहान्तराया घातिकाः, अपरा अघातिकाः । अघातिकास्तु सर्वघातिका देशघातिकाश्चेति द्विविधाः । तत्र केवलदर्शनावरणनिद्रानिद्राप्रचलाप्रचलास्त्यानद्धिनिद्राप्रचलाकेवलज्ञानावरणद्वादशकषायमिथ्यात्वाख्या विंशतिप्रकृतयस्सर्वघातिकाः । ज्ञानावरणचतुष्कदर्शनावरणत्रयान्तरायपञ्चकसंज्वलननोकषायसंज्ञका देशघातिनः । एवं शरीराङ्गोपाङ्गनिर्माणसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णागुरुलघुपराघातोपघाताऽऽतपोद्योतप्रत्येकसाधारणस्थिरास्थिरशुभाशुभनामकर्माणि पुद्गलविपार्कप्रदानि, आनुपूर्वी तु क्षेत्रविपाककरा, आयुर्भवधारणफलं, अवशिष्टाः प्रकृतयो जीवविपाकहेतवो बोध्या: । एवं नारकादिचतुर्गतिषु नरकगतौ तावत्सात
१. केवलदर्शनज्ञानयोस्सर्वात्मनाऽऽवरणादनयोस्सर्वधातित्वं न तुदर्शनज्ञानमात्रावारकत्वात्, तथात्वेजीवस्याजीवत्वापत्तेः २. स्वस्वविषयाणां सर्वात्मना घातकत्वासम्भवादिति भावः । अघातिकास्तु न ज्ञानादिगुणं घातयन्ति, किन्तु सर्वदेशघातिनीभिस्सह वेद्यमानास्सर्वदेशधातिरसविपाकं दर्शयन्ति, यथा चौरैस्सहाचौरश्चौर इवावभासते ॥ ३. शरीरान्तर्गतपुद्गलेष्वात्मीयशक्तिप्रदर्शनात् क्षेत्रेति, आकाश एव स्वशक्तिप्रदर्शिका, विग्रहगतावेवास्या उदयादिति भावः । भवेति, स्वयोग्यभव एवोदयीत्यर्थः, नान्यस्मिन् भवे गतय इवेति भावः । जीवेति, जीव एवादर्शनित्वाज्ञानित्वाचारित्रित्वादातृत्वसुखित्वदुःखित्वकारिण्य इति भावः ॥