________________
२०२
तत्त्वन्यायविभा
अथाऽऽतपादिनामकर्माण्याचष्टे
स्वरूपतोऽनुष्णानां शरीराणामुष्णत्वप्रयोजकं कर्माऽऽतपनाम । तच्च भानुमण्डलगतभूकायिकानाम् । गात्राणामनुष्णप्रकाशप्रयोजकं कर्मोद्योतनाम । तच्च यतिदेवोत्तरवैक्रियचन्द्रग्रहतारारत्नादीनाम् । प्रशस्तगमनहेतुः कर्म शुभखगतिनाम । १५ ।
स्वरूपत इति । यस्य कर्मण उदयाज्जन्तुशरीराणि स्वभावेनानुष्णान्यपि उष्णप्रकाशरूपमुष्णत्वं लभन्ते तदातपनामकर्मेत्यर्थः । स्वरूपतोऽनुष्णशरीरसम्भूतोष्णप्रकाशप्रयोजककर्मत्वं लक्षणार्थः । वह्निशरीरोष्णस्पर्शस्य स्पर्शनामकर्मोदयजन्यत्वात्तत्रातिव्याप्तिवारणाय स्वरूपतोऽनुष्णेति । तादृशकर्मोदयः कुत्रेत्यत्राह - तच्चेति । भानुमण्डलादिगतानां पृथिवीकायिकनामेवेत्यर्थो विपाकाभिप्रायेणेदम्, न तु वह्नौ तद्विपाकः, प्रवचने प्रतिषेधात्, तत्रोष्णत्वस्योष्णस्पर्शनामोदयेन प्रकाशकत्वस्य चोत्कटलोहितवर्णनामोदयेन संभवात् । स्थिती च पञ्चेन्द्रियवत् । उद्योतनामस्वरूपमाह–गात्राणामिति । शरीरवृत्त्यनुष्णप्रकाशप्रयोजकत्वे सति कर्मत्वं लक्षणं, कृत्यं पूर्ववत्, अस्य विपाकस्थानमाह - तच्चेति । विहितोत्तरवैक्रियाणां मुनिदेवानां तथा चन्द्रादीनामित्यर्थः । स्थिती पंचेन्द्रियवदेव । अथ शुभखगतिनामाह - प्रशस्तेति । प्रशस्तगमनहेतुत्वे सति कर्मत्वं लक्षणम्, विशेषणविशेष्यकृत्यं प्राग्वत् । कुखगतावतिव्याप्तिवारणाय प्रशस्तेति, हंसगजवृषादीनामिव प्रशस्ता गतिर्ग्राह्या, सिद्धजीवपुद्गलानां गतिस्तु स्वाभाविकी, न चास्य कर्मण उदयः पक्ष्यादिष्वेव स्यान्न मनुजादौ तेषामाकाशे गत्यभावान्न शुभखगतिरिति वाच्यम्, विहायसस्सर्वगतत्वेन गतिमात्रस्याकाश एव भावात् न च तर्हि शुभगतिनामेत्येवोच्यतां किं खपदेन व्यावर्त्याभावादिति वाच्यम्, संशयव्यवच्छेदार्थं तद्विशेषणोपादानात्, अन्यथा देवत्वादिपर्यायपरिणतिप्रयोजककर्मणश्शङ्कया पौनरुक्त्याशङ्का स्यादिति भावः । तत्त्वार्थभाष्ये तु लब्धिशिर्क्षाद्धप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनामेति दृश्यते । व्याख्या च लब्धिर्देवादीनां देवोत्पत्त्यविनाभाविनी, शिक्षया ऋद्धिः शिक्षद्धिः, तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्त्तनप्रभावाद्वाऽऽकाशगमनस्य, लब्धिशिक्षद्धिहेतोर्जनकं विहायोगतिनामेति । अस्य परा स्थितिर्देवगतिवत्, जघन्या तु मनुजगतिवत् ॥
१ यतिदेवैर्मूलशरीरापेक्षयोत्तरकालं क्रियमाणं वैक्रियं यतिदेवोत्तरवैक्रियमुच्यत इत्याशयेनाह विहितेति ॥ २. गतिद्धिविधा भावगतिः कर्मगतिश्चेति, आद्या पञ्चास्तिकायानां परिणामाश्रयत्वात् कर्मगतिर्द्विविधा विहायोगति चलनगतिश्चेति, विहायोगतिनामोदयवेदका जीवाः प्रथमगतिमन्तः, चलनगतिं प्रतीत्य सर्वे जीवाः पुद्गलाश्च, सिद्धास्तु सिद्धिक्षेत्रगमनकाल एव न पश्चादिति बोध्यम् ॥