________________
१९१
सूत्र - ११, चतुर्थ किरणे
तादृशमिति । अङ्गोपाङ्गनिमित्तमित्यर्थः । वैक्रियशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । निष्पत्तिपदानुपादाने पर्याप्तनामकर्मण्यारब्धाङ्गसमापकेऽतिव्याप्तितस्तदुपादानं, अन्यपदप्रयोजनं पूर्ववद्भाव्यम् । परा जघन्या चास्य स्थितिर्वैक्रियशरीरवत् । अथाऽऽहारकाङ्गोपाङ्गनामकर्माभिधत्ते - तादृशमेवेति । अत्रापि आहारकशरीरसम्बन्ध्यङ्गोपाङ्गोत्पत्तिनिदानत्वे सति कर्मत्वं लक्षणं कृत्यञ्च पूर्ववदेव । उभयविधा स्थितिरस्याप्याऽऽहारकशरीरवदेव भाव्या । विभागवाक्येऽमून्येवादिमत्रितनूपाङ्गशब्देनोक्तानीत्याहइमानीति । आदिमा यास्तिस्रस्तनवस्तासामुपाङ्गानि अङ्गोपाङ्गाभिधानि इमान्येवेत्यर्थः । ननु शरीरत्वाविशेषात्तैजसकार्मणयोर्न कथमङ्गोपाङ्गानीत्यत्राह-तैजसकार्मणयोस्त्विति । आत्मप्रदेशतुल्यसंस्थानत्वादिति 'जीवप्रदेशसंस्थानानुरोधित्वादित्यर्थः । प्रयोजनाभावात्प्रमाणाभावाच्चान्तर्गतिं विहायान्यत्रैतयोस्स्वातंत्र्येणावर्त्तमानत्वादिति भावः । नन्वौदारिकशरीरभाजां पृथिव्यप्तेजोवायुवनस्पतीनामप्यङ्गोपाङ्गानि सन्ति नवेत्याशङ्कायामाह-एवमेकेन्द्रियशरीराणामपीति । यथा तैजसकार्मणयोर्नाङ्गोपाङ्गानि तथा एकेन्द्रियाणां पृथिव्यादीनां यानि शरीराणि तेषामपि नाङ्गोपाङ्गानि भवन्तीतिभावः । ननु कथं वनस्पतीनां शरीराणामङ्गोपाङ्गरहितत्वं मूलस्कन्धशाखाप्रशाखात्वक्पत्रपुष्पफलादीनामवयवत्वादित्याशङ्कायामाहवनस्पत्यादिष्विति । आदिपदेन वायुतेजोजलपृथिवीनां ग्रहणम्, पश्चानुपूर्व्या निर्देशः, वनस्पतौ मूलादिष्ववयवत्वस्य लोकप्रसिद्धतया तस्यैव प्रथममुपन्यासात् । प्रेत्येकनामकर्मप्रभावाच्छाखादीनां भिन्नजीवशरीरत्वमेव न त्वङ्गोपाङ्गत्वं वृक्षस्येति भावः । बन्धनसंघातनामकर्मणोस्तु शरीरविषयत्वादेव शरीरनामकर्मान्तर्भूततया नात्र तयोः पृथगुपन्यासः कृतः ।।
વૈક્રિયઅંગોપાંગનામકર્મ કહે છે
भावार्थ- तेपुं-अंग- उपांगमां निमित्त वैडियशरीर संबंधी उर्भ 'वैडिय अंगोपांग नाम.' तेवुं ४ अंगઉપાંગ નિમિત્ત આહારકશરીર સંબંધી કર્મ ‘આહારક અંગોપાંગ નામ.' આ પ્રથમ ત્રણ શરીરના અંગઉપાંગો છે. તૈજસ અને કાર્યણ આત્માના પ્રદેશ સરખા સંસ્થાન(આકાર)વાળા છે, માટે તૈજસ અને કાર્મણના અંગ-ઉપાંગ નથી. આ પ્રમાણે એકેન્દ્રિય-સ્થાવર જીવોના શરીરોને પણ અંગ-ઉપાંગો હોતાં નથી.
,
१. जीवप्रदेशानुरोधि तैजसं शरीरं ततो यदेव तस्यां तस्यां योनौ औदारिकशरीरानुरोधेन वैक्रियशरीरानुरोधेन च जीवप्रदेशानां संस्थानं तदेव तैजसशरीरस्यापि, एवं कार्मणस्यापि भाव्यम् ॥
२. वृक्षादौ मूलादिषु प्रत्येकमसंख्येया अपि जीवाः परस्परं विभिन्नशरीराः प्रबलरागद्वेषोपचितप्रत्येकनामकर्मपुद्गलोदयतः परस्परं संहताः, श्लेषद्रव्यसंपर्कमाहात्म्यात् परस्परविमिश्रसर्षपवर्त्तिरिवेत्याशयेनाह प्रत्येकेति ॥