________________
१८६
तत्त्वन्यायविभाकरे प्रतिविशिष्टप्रयोजनसाधनयाऽऽह्रियते कार्यपरिसमाप्तेश्च पुनर्मुच्यत इत्याहारकं शुभद्रव्योपचितं शुभपरिणाममव्याघाति चतुर्दशपूर्वधरस्यैव भवति । पूर्वं प्रणयनात् पूर्वाणि, चतुर्दशसंख्यायुतानि पूर्वाणि चतुर्दशपूर्वाणि, तानि धारणाज्ञानेनाऽऽलम्बत इति चतुर्दशपूर्वधरः, एवंविधश्चतुर्दशपूर्वधर एव सञ्जातलब्धिः श्रुतज्ञानगम्ये कस्मिंश्चिदर्थेऽतिगहने संदिहान: तदर्थनिश्चयार्थं क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकशरीरद्वारा गमनमसम्भवीति मन्वानो लब्धिप्रत्ययमाहारकशरीरमुपजनय्य तत्राशु गत्वाऽभिवन्द्य पृष्ट्वा च विच्छिन्नसंशयो भूत्वा तमेव देशं पुनरागत्य प्रागौदारिकमनुप्रविशति विहायाऽऽहारकं शरीरमिति भावः । तुर्यपञ्चमे इति तैजसकार्मणे इत्यर्थः । संसारिणां सर्वेषामिति । अस्मिन्नेव जन्मनि समुद्भव इति नियमाभावात्सर्वत्राप्रतिहतशक्तित्वात् सतैजसं कार्मणं सर्वजन्मसु भवति, कार्मणसहचरितमिदं तैजसं काणभेद उष्मलक्षणं रसाद्याहारपाकजनकं ग्राह्यम्, लब्धिप्रत्ययं तैजसन्तु न सर्वेषां, किन्तु तपोविशेषानुष्ठानात्समुद्भूतशक्तेः कस्यचिदेव । कार्मणन्तु नियमतस्सर्वेषां, इदञ्चौदारिकादीनां बीजं कार्यकारणरूपञ्चेति भावः । ननु शरीराण्युपभोगवन्ति भवन्ति तत्र सर्वेषामेव किं शरीराणामुपभोगवत्त्वमुत केषाञ्चिदेवेत्याशंकायामाहकार्मणमिति । कार्मणभिन्नशरीरचतुष्टयेन जीवस्सुखदुःखोपभोगं कर्मबन्धनं तद्वदनं तन्निर्जराञ्च विदधाति, अतस्तान्युपभोगवन्ति न तु कार्मणं, सुखाद्युपभोगस्यासंख्येयसामयिकत्वात्, चतुस्समयपरे विग्रहे एवास्य स्वातंत्र्येण भावात्, न विशिष्टकर्मबन्धस्तदानीमभिव्यक्त बन्धकरणाभावात् स्पष्टहिंसाद्ययोगात्, न च विशिष्टानुभावेन वेद्यते कर्म, कर्मविग्रहस्याल्पकालत्वात्, उदीरणाद्ययोगात्, नवा निर्जरणं, उपकरणाभावात् प्रतिविशिष्टभोगाद्यपेक्षया कार्मणं विहायेत्युक्तं, न तेन तत्रोपभोगमात्रव्युदासः, किन्तु अभिव्यक्तसुखदुःखकर्मानुबन्धानुभवनिर्जरालक्षणोपभोगस्यैव व्युदास इति भावः ॥
वे मा आर्यभूत शरीशन स्वामीन छ । ભવાર્થ- ત્યાં પાંચ શરીરો પૈકી પહેલું ઔદારિકશરીર તિર્યંચ-મનુષ્યોને હોય છે. બીજું વૈક્રિયશરીર દેવ-નારકીઓને હોય છે. ત્રીજું આહારકશરીર ચૌદપૂર્વધરને હોય છે. ચોથું-પાંચમું તૈજસ-કામણશરીર સર્વ સંસારી જીવોને હોય છે. કાશ્મણશરીરને છોડી બીજા ચાર શરીરો ઉપભોગવાળા છે.
વિવેચન- પાંચ શરીરો કર્મજન્યત્વનો ભેદ નહિ હોવા છતાં- કર્મસમુદાય આત્મકત્વનો ભેદ નહિ હોવા છતાંય જેમ કારણભેદથી ભિન્ન છે, તેમ સ્વામીના ભેદથી પરસ્પર ભિન્ન ભિન્ન છે. જેમ કે- આ પાંચ શરીરોમાં પ્રથમ ઔદારિકશરીરના સ્વામીઓ તિર્યંચ-મનુષ્યો છે. આ પ્રમાણે ભાવાર્થ સમજવો.