________________
१७०
तत्त्वन्यायविभाकरे
વિવેચન- આ પૌલિક પુણ્યકર્મ દ્રવ્યપુણ્ય' કહેવાય છે. જે આત્માના અધ્યવસાય વડે (શુભ અધ્યવસાય વડે) દ્રવ્ય રૂપ પુણ્યની ઉત્પત્તિ-સિદ્ધિ થાય છે, તે અધ્યવસાય “ભાવપુણ્ય' તરીકે કહેવાય છે.
अथ मूलप्रकृतिबन्धानामष्टविधकर्मणामुत्तरप्रकृतिबन्धेषु यानि पुण्यरूपाणि द्विचत्वारिंशद्विधानि पूर्वोदितानि प्रत्येकं तेषां स्वरूपं निरूपयितुमुपक्रमते
आयुर्नामगोत्रकर्मभिन्नमनुकूलवेदनीयं कर्म सातम् । वेदनीयायुर्नामकर्मभिन्नं गौरवजनकं कर्म उच्चैर्गोत्रम् । मानुषत्वपर्यायपरिणतिप्रयोजकं कर्म मनुजगतिः । ३ । __ आयुरिति । आयुर्नामगोत्रकर्मभिन्नत्वे सत्यनुकूलवेदनीयत्वे च सति कर्मत्वं सातवेदनीयस्य लक्षणम् । उच्चैर्गोत्रादावतिव्याप्तिवारणाय विशेषणे । अनुकूलवेदनीयं कर्म सातमित्येतावन्मात्रोक्तौ सर्वस्यैव पुण्यात्मककर्मणोऽनुकूलत्वेनाह्लादादिरूपेण वेदनीयत्वादतिव्याप्तिरिति प्रथमं सत्यन्तं, असातवेदनीयेऽतिव्याप्तिवारणाय द्वितीयं सत्यन्तम् । कर्मत्वानुक्तौ सातानुकूलाध्यवसाये कालादिसमवाये वातिव्याप्तिरतस्तदुपात्तम् । देवादिषु गतिषु कर्तुरात्मनश्शरीरमनोद्वारेणाऽऽगन्तुकानेकमनोज्ञद्रव्यक्षेत्रकालभावसम्बन्धसमासादितपरिपाकावस्थं बहुभेदं सुखपरिणतिरूपमिष्टं यदुदयाद्भवति तत्सातवेदनीयमिति भावार्थः । पञ्चदशसागरोपमकोटीकोट्योऽस्य परा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या काषायिकी द्वादशमुहूर्ता, अन्तर्मुहूर्तमबाधा, इयञ्च संज्ञिपञ्चेन्द्रियस्यैव । अकषायिकी तु जघन्यत उत्कृष्टतोऽपि सयोगिकेवल्यादौ समयद्वयमानं स्थितिः । उच्चैर्गोत्रस्वरूपमाह-वेदनीयेति । वेदनीयायुर्नामकर्मभिन्नत्वे सति गौरवजनकत्वे च सति कर्मत्वं लक्षणार्थः । सातादावतिव्याप्तिवारणाय विशेषणद्वयम् । गौरवजनकत्वे सति कर्मत्वस्य सवेंदनीयवतो देवायुष्कस्य तीर्थकरनामकर्मणश्च गौरवदर्शनात् तत्र तत्र सत्त्वादतिव्याप्तिव्युदासाय प्रथमं सत्यन्तम् । नीचैर्गोत्रेऽतिव्याप्तिरतो द्वितीयं सत्यन्तम् । अध्यवसायविशेषे कालादौ वाऽतिव्याप्तिवारणाय विशेष्यम् । यदुदयाज्जीव आर्यदेशे मगधादौ हरिवंशाद्युत्कृष्टजातिषु सन्मातृकुलेषु प्रभुसमीपाऽऽस्थानेषु संभवं मानसत्कारैश्वर्यादींश्च लभते तदुच्चैर्गोत्रमिति भावार्थः । अस्य परा स्थितिविंशतिसागरोपमकोटीकोट्यः । अबाधाकालो वर्षसहस्रद्वयम् । जघन्या त्वष्टौ मुहूर्ता अन्तर्मुहूर्तमबाधा चेति । मनुजगतिं लक्षयति मानुषत्वेति, मानुषत्वपर्यायपरिणतिप्रयोजकत्वे
१. शोधितमिथ्यात्वपुद्गलरूपसम्यक्त्वहास्यरतिपुरुषवेदानां केषाञ्चिन्मते पुण्यरूपत्वेऽपि मोहनीयभेदत्वेन विपर्यासहेतुत्वात्पापरूपत्वमिति तदुपेक्ष्य द्विचत्वारिंशद्विधत्वं पुण्यस्यात्रोक्तम् ॥ २. बाहुल्येन देवेषु मनुजेषु च सातोदयः कदाचिदसातोदयोऽपि, तिर्यक्षु नारकेषु बाहुल्येनासातोदयः कदाचित्सातोदयोऽपि ॥