________________
१६१
सूत्र - १, चतुर्थ किरणे बलं, तस्मात्तन्मूर्त, एवं मूर्तं कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात्, क्षीरवत्, न चायं हेतुरसिद्धः, कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनात्, यस्य कार्यं हि परिणामि सोऽपि परिणामी, यथा दध्नस्तक्रादिभावेन परिणामात्पयसोऽपि परिणामित्वमिति । न चाभ्रादिविकाराणां यथा वैस्रसिकी विचित्ररूपतया परिणतिरभ्युपगम्यते तथा परिदृश्यमानं शरीरमेव काणत्वखञ्जत्वसुखित्वदुःखित्वादिभावैर्विचित्रतया परिणमति किमन्तर्गडुना कर्मणेति वाच्यम्, कर्मणोऽपि शरीरत्वात्, तद्धि केवलं श्लक्ष्णतरमभ्यन्तरञ्च जीवसंश्लिष्टत्वात्, यथा च बाह्यतनोरभ्रादिविकारवद्वैचित्र्यमभ्युपगम्यते तथैव कर्मतनोरपि तदभ्युपगमस्य न्याय्यत्वात् । न च बाह्यतनोस्तत्स्वीकार उचितो दृश्यत्वात्, कर्मरूपायास्तु सर्वथाऽप्रत्यक्षत्वाद्वैचित्र्यं कथमिच्छाम इति वाच्यम्, मरणकाले दृश्यमानस्थूलशरीरस्य सर्वथा विप्रमुक्तस्य जन्तोर्भवान्तरगतस्थूलशरीरग्रहणहेतुसूक्ष्मकर्मशरीरस्यावश्यकत्वात्, अन्यथा देहान्तरग्रहणानुपपत्तेर्मरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात् । न च मूर्तस्य कर्मणोऽमूर्तेनात्मना सम्बन्धो न स्यादिति वाच्यम्, मूर्तस्य घटस्यामूर्तेनाकाशेन सम्बन्धात्, संसारिणो जीवस्य सर्वथाऽमूर्तत्वाभावाच्च । तस्मात्सिद्धं कर्म विचित्रं मूर्तञ्चेत्यलं प्रसङ्गेन ॥
तत्र पुण्यमिदं कार्यकारणभेदेन द्विविधं, सुपात्रदानादिभिर्वक्ष्यमाणैः कारणैस्सातोच्चैर्गोत्रादिकमनुभूयते जीवैः, तत्र सुपात्रदानादिकं कारणात्मकं पुण्यं, सातोच्चैर्गोत्रादिकन्तु कार्यात्मकं, आत्मशुभाध्यवसायस्य तु पुण्यत्वमौपचारिकममूर्त्तत्वात्, मूर्तस्यैव बन्धकत्वाच्च । तदिदं पुण्यपापात्मकं कर्म संतत्याऽनाद्यं, संसारस्यानादित्वात्, अन्यथा पूर्वं जीवस्य पश्चात्कर्मणस्सम्भवः, पूर्वं वा कर्मणः पश्चाज्जीवस्य, उभयोरपि वा युगपद्वाच्यः, तत्रैकोऽपि पक्षो न सम्भवति, निर्हेतुकत्वेनात्मनः प्रथमं सम्भवासंभवात्, तस्यानादिसिद्धत्वेऽपि पश्चात् कर्मबन्धो नं संभवत्येव, कारणाभावात् । निष्कारणं वा सम्भवे मुक्तस्यापि कर्मबन्धापत्तेः, तथा प्रथमं कर्मसमुद्भवोऽपि न न्याय्यः, कर्तुर्जीवस्य तदानीमभावात्, अक्रियमाणस्य कर्मत्वायोगात्, कारणं विनैव तस्य समुद्भवे नाशस्याप्यकारणत्वापत्तेः । तथा न युगपदुत्पत्तिसम्भवः, उभयस्यापि निर्हेतुकत्वात्, युगपदुत्पन्नयोस्तयोः कर्तृकर्मभावस्य सव्येतरगोविषाणयोरिवासम्भवात् । तस्मादनादिरेव जीवकर्मणोः सम्बन्धः । न च जीवकर्मसंयोगसन्तानस्यानादित्वे जीवनभसोरिवानन्तत्वमपि स्यादिति वाच्यम्, बीजाङ्करादीनां संतानस्यानादेरपि सान्तत्वदर्शनात्, दृश्यते हि बीजाङ्करयोर्मध्येऽन्यतरस्यानिवर्तितकार्यस्यैव १. ननु घटेनाऽऽकाशस्य संयोगे न मूर्तत्वं निबन्धनमपितु व्यापकत्वमित्यनुयोगे त्वाह संसारिण इति ॥