________________
१४०
तमाह
तत्त्वन्यायविभाकरे
कृत्स्नतया परिकल्पितपरमाणुसमूहः स्कन्धः । १६ ।
"
कृत्स्नतयेति । विशिष्टरचनावान् पूर्णः परमाणुसंघातः स्कन्ध इत्यर्थः, यथा घटादिः, देशप्रदेशवारणाय पूर्ण इति, विशकलितपरमाणुव्रजवारणाय विशिष्टरचनावानिति, एतेनावयविनः परमाणुसंघातात् सर्वथा भिन्नत्वं व्युदस्तम्, नन्ववयवावयविनौ भिन्न भिन्नप्रतिभासत्वात्सह्यविन्ध्यवत्, न चासिद्धो हेतुस्साध्यधर्मिणि तत्सद्भावनिश्चयात् । न चानेकपुरुषप्रतिभासविषये एकस्मिन्नर्थे भिन्नप्रतिभासत्वसत्त्वेन व्यभिचार इति वाच्यम्, एकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेतुत्वात् । न चैकेन पुरुषेण क्रमेण दृष्टे एकस्मिन्नेव घटे हेतोस्सत्त्वेन व्यभिचार इति वाच्यम्, भिन्नलक्षणत्वे सत्येकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेत्वर्थत्वात्, अस्ति हि घटकपालादौ विभिन्नलक्षणत्वं भिन्नप्रतिभासत्वञ्च । न च ययोर्न तादात्म्यं न तयोरभिन्नदेशत्वं यथा सह्यविन्ध्ययोः । अभिन्नदेशत्वञ्चावयवावयविनोस्ततस्तादात्म्यमेवेति वाच्यम्, अवयवावयविनोरभिन्नदेशत्वासिद्धेः घटादेर्हि कपालो देशस्तस्य च तदवयव इति देशस्य भिन्नत्वमेवेति । न च कथञ्चित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेस्सर्वथा भेदपक्षो बाधित इति वाच्यम्, भेर्दस्यैव पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धत्वाभावात् कार्यकारणत्वधर्मधर्मित्वाधिकरणाधेयत्वविभिन्नक्रियात्वादिभिर्भेदस्य सिद्धेस्तस्मादवयवावयविनोर्भेद एवेति चेन्मैवम्, वृत्त्यनुपपत्तेः, सा हि वृत्ति: प्रत्याश्रयमेकदेशेन सर्वात्मना वा स्यात्, तत्र न ह्येकस्य प्रत्याश्रयमेकदेशेन वृत्तित्वं, निरंशत्वात्, न वा सामस्त्येन, अवयविनां बहुत्वापत्तेः स्वावयवेषु प्रत्येकं सर्वात्मना वर्त्तमानत्वात्, न चाप्यवयविन: प्रदेशवत्त्वं न्याय्यं तत्रापि वृत्तिविकल्पेनानवस्थानात्, एकदेशसर्वात्मभिन्नवृत्तिताया अप्रसिद्धत्वात् । न च समवाय एव प्रकारान्तरं वर्त्तत इति वाच्यम्, समवैतीति समवाय इति सम्प्रत्ययात् तत्रापि प्रत्याश्रयमेकदेशेन सर्वात्मना वेत विकल्पस्य निष्प्रत्यूहत्वात्, तत्र च दोषस्योक्तत्वात् । तस्मादवयविनः स्वाश्रयेभ्यो नैकान्तेन भेदस्तत्र वृत्त्युपलब्धेः । यतो यस्यैकान्तभेदस्तत्र तस्य न वृत्त्युपलब्धिर्यथा विन्ध्यस्य हिमवति । स्वाश्रयेषु त्ववयव्यादेर्वृत्त्युपलब्धेर्नैकान्तेनान्यत्वम् । अतस्सर्वथा भेदस्य बाधितत्वेन भिन्नप्रतिभासत्वहेतोः कालात्ययापदिष्टत्वम् । न च घटे ततस्सर्वथा भिन्नस्यापि
१. कार्यकारणादिभेदस्य सर्वैः स्वीकृतत्वेन पूर्वसिद्धत्वादित्यर्थः । २. तत्प्रत्यक्षस्य विवादापन्नत्वेन तादात्म्ये साध्ये हेतौ संदिग्धासिद्धेरित्यर्थः । ३. एकस्यावयव्यादेर्भागाभावेनानेकत्रावयवादी वृत्तिर्न भवतीति भावः ।