________________
सूत्र - १ - २, तृतीय किरणे
१०५
1
गत्यसाधारणेति । गतिर्गमनक्रिया, क्रिया च बाह्याभ्यन्तरनिमित्तापेक्षत्वे सति देशान्तरप्राप्तिहेतुत्वे सति द्रव्यपर्यायरूपा । तत्राभ्यन्तरं निमित्तं द्रव्यस्य क्रियापरिणामशक्तिः, बाह्यं तु नोदनाभिघातादिः, एतेन च क्रियायाः कथञ्चिद्द्रव्यभिन्नत्वमन्यथोपरमाभावप्रसङ्गः, द्रव्यपर्यायत्वाच्च नात्यन्तिकभेदः, अन्यथा द्रव्यस्य निश्चलत्वप्रसङ्गः । ज्ञानादीनामपि बाह्याभ्यन्तरनिमित्तापेक्षत्वे सति द्रव्यपर्यायत्वात्तद्वारणाय देशान्तरप्राप्तिहेतुत्वे सतीत्युक्तम् । सा च जीवपुद्गलयोरेव, तयोरेव देर्शान्तरप्राप्तिदर्शनात् । तां प्रत्यसाधारणहेतुभूतं द्रव्यं धर्म इत्यर्थः, तत्र कारणं त्रिविधं निर्वर्त्तकनिमित्तपरिणामिभेदात्, यथा घटं प्रति कुलालो निर्वर्त्तकं कारणं, दण्डादिकं निमित्तं, मृत्पिण्डः परिणामि, तथा जीवपुद्गलानां गतिं प्रति गतिक्रियाविष्टं तदेव जीवपुद्गलद्रव्यं निर्वर्त्तकं तदेव च गतिपरिणामि परिणामिकारणं, धर्मद्रव्यञ्च निमित्तमिति । निमित्तं कारणञ्च प्रायोगिकवैस्रसिकोभयक्रियावद् यथा दण्डादिः, तद्वत् केवलं वैस्रसिकक्रियावदपि, एतदेव निमित्तकारणमसाधारणकारणमपेक्षाकारणमुच्यते, द्रव्यगतक्रियापरिणाममपेक्ष्य धर्मादीनां जीवादिगत्यादिक्रियापरिणते: परिपोषणात् ईदृक्परिपोषणस्यान्यासाधारणत्वात्, धर्माद्यखिलद्रव्येषु वैस्रसिकक्रियाया: सद्भावेन प्रायोगिकक्रियापेक्षया निष्क्रियत्वेन धर्मादिषु दण्डादिवन्निमित्तकारणत्वप्रसङ्गभङ्गाय हेत्वन्तम् । कस्यचिन्मते जीवविशेषगुणे रूढस्य धर्मस्य व्यावृत्त्यर्थं द्रव्यपदम् । गतिमत्त्वे सति द्रव्यत्वमित्युक्त जीवपुद्गलयोरतिव्याप्तिरिति गत्यसाधारणहेतुत्वे सतीत्युक्तम् । गतिहेतुत्वे सति द्रव्यत्वमित्युक्तौ कालादिसमवायानां कार्यमात्रकारणत्वे कालादावतिव्याप्तिवारणायापेक्षाकारणत्वापरपर्यायमसाधारणकारणत्वमुक्तम्, अपेक्षाकारणत्वे सति द्रव्यत्वमित्युक्तावधर्मादावतिव्याप्तिरिति गतीति ॥
ધર્માસ્તિકાય રૂપ અજીવનું લક્ષણ
ભાવાર્થ- ગતિ પ્રત્યે અસાધારણ હેતુભૂત દ્રવ્ય ‘ધર્માસ્તિકાય’ કહેવાય છે.
વિવેચન- ગતિ એટલે ગમનક્રિયા અને તે ક્રિયા બાહ્ય-આત્યંતર રૂપ નિમિત્તની અપેક્ષાવાળી તેમજ બીજા પ્રદેશની પ્રાપ્તિમાં હેતુભૂત એવી દ્રવ્યના પર્યાય રૂપ છે.
ત્યાં અત્યંતર રૂપ નિમિત્ત દ્રવ્યની ક્રિયા રૂપ પરિણામની શક્તિ સમજવી. બાહ્ય રૂપ નિમિત્ત, પ્રેરણા, અભિધાત વગેરે. આ કથનથી ક્રિયાનું કથંચિત્ દ્રવ્યથી ભિન્નપણું છે.
१. आत्मपक्षे प्रयोगः आत्मा सक्रियो देहपरिस्पन्ददर्शनाद्यंत्रपुरुषवदिति, न च देहपरिस्पन्दहेतुः प्रयत्नो न क्रियेति वाच्यमक्रिये नभसि तदसंभववदक्रिय आत्मन्यपि तदसम्भवात्, तथाऽऽत्मा सक्रियः कर्त्तृत्वात् कुलालवदित्यपि प्रयोगो न चासिद्धो हेतु:, कर्त्ताऽऽत्मा स्वकर्मफलभोक्तृत्वादित्यनुमानतस्तत्सिद्धेरिति ॥